SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ सटीकः। स्तबकः। शास्त्रवार्वा- एकनैकस्यैव ग्रहात् ॥ ९६ ॥ समुच्चयः। एतत् परिजिहीर्षनाह॥१५॥ तथाग्रहस्तयोर्नेतरेतरग्रहणात्मकः । कदाचिदपि युक्तो यदतः कथमबाधकम् ? ॥१७॥ ___ तयोः-हेतु-फलयोः, तथाग्रहः- तज्जननस्वभावत्वादिना ग्रहः, इतरेतरग्रहणात्मकः- घटकग्रहसापेक्षग्रहरूपः, धर्मिमात्रग्रहात् ER कदाचिदपि युक्तः, अतः कथमबाधकं प्रागुक्तम् । न हि स्खलक्षणाध्यक्षं वस्य याथात्म्ये प्रमाणम् , क्षणिकत्व-स्वर्गप्रापणशक्त्यादा| चपि तथास्वप्रसङ्गात , “यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता" इत्यस्य ध्याघातापत्तेश्च ।। ९७ ॥ . न च हेतु-फलमात्रस्वरूपग्रहाद् हेतु-फलभावविकल्प इति सांप्रतम् , अतिप्रसङ्गात् , इत्याहतथाग्रहे च सर्वत्राविनाभावग्रहं विना। न धूमादिग्रहादेव ह्यनलादिगतिः कथम् ?॥९८॥ .. सर्वत्र तथाग्रहे च सर्वत्र धर्मिमात्रग्रहात् तत्स्वभावत्वविकल्पने च, अविनाभावस्य ग्रहो यस्मादित्यविनाभावग्रहःसहचारादिज्ञानं तद् विना, धृमादिग्रहादेव- धूमादिस्वरूपमात्रग्रहादग्न्यादिव्याप्तिविकल्पनादेव, हि- निश्चितम् , अनलादिगतिः-- अग्न्यायनुमानम् , कथं न भवेत् ? । भवेदेवाभ्यास-पाटवादिना कचिदिति चेत् । अगृहीतसहचारस्य नालिकेरद्वीपवासिनोऽपि धूमदर्शनमात्रादग्निव्याप्तिविकल्पादग्न्यनुपानं किं न स्यात् ॥९८॥ १ यत्रैव- विषये । २ कल्पनाम् । ३ अस्य- प्रत्यक्षस्य । ॥१५॥ Jan Education International For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy