SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ... अत्राह उभयोर्ग्रहणाभावे न तथाभावकल्पनम् । तयोाय्यं न चैकेन द्वयोर्ग्रहणमस्ति वः॥९४॥ उभयोः- हेतु-फलयोः, ग्रहणाभावे न तथाभावकल्पनं- तज्जननस्वभावादिकल्पनम् , तयोः- हेतु-फलयोः, न्याय्यम् , IP उभयपटितत्वात् तस्य । न चैकेन ग्राहकेण, योभित्रकालयोः, ग्रहणमस्ति, वा-युष्माकम् ॥ ९४ ॥ एतदेव दर्शयतिएकमर्थ विजानाति न विज्ञानद्वयं यथा । विजानाति न विज्ञानमेकमर्थद्वयं तथा ॥९॥ यथा विज्ञानद्वयं भिन्नकालं क्षणिकत्वादेकमर्थं न विजानाति, तथा विज्ञानमेकमर्थद्वयं भिन्नकालं क्षणिकत्वादेव न विजानाति 'नाननुकृतान्वय-व्यतिरेक कारणं, नाकारणं विषयः' इति हि सौगतानां मतम् । न च ज्ञानद्वय एकस्यार्थस्येव, ज्ञानेऽर्थद्यस्यापि हेतुत्वम् , इति नैकेनोभयग्रहणमिति भावः ॥९५ ।। पराभिप्रायमाहवस्तुस्थित्या तयोस्तत्त्व एकेनापि तथाग्रहात्। नो बाधकं न चैकेन द्वयोर्ग्रहणमस्त्यदः॥१६॥ वस्तुस्थित्या, पौर्वापर्यभावेन तयोः- हेतु-फलयोः, तच्चे- तजननादिस्वभावत्वे, एकेनापि-धर्मिग्राहकेण, तथाग्रहात्- तदभिन्नतद्धर्मप्रकारकग्रहात , नो बाधकं प्रागुक्तम् । न चादः-एतत् , एकेन द्वयोर्ग्रहणमस्ति, धर्म-धर्मिणोरनर्थान्तरत्वात् , For Private Personal Use Only www.jainelibrary.org Jain Education Interminal
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy