________________
शाखवार्तासमुच्चयः ॥१५०॥
सटीकः । स्तबकः। ॥४॥
अथ नेयं वासना वासकसंसर्गरूपा, किन्तु मृगमदक्षणपरम्परावत् स्खहेतुप्रसूततत्तत्क्षणपरम्परारूपैव, इत्यभिप्राय- माकलय्याभ्युपगतमप्यसंगतत्वात् परित्यजन्नाहवास्यवासकभावश्च न हेतुफलभावतः।तत्त्वतोऽन्य इति न्यायात्स चायुक्तो निदर्शितः॥९॥
वास्यवासकभावश्चायं भवत्कल्पितो न हेतुफलभावतः सकाशात् तत्त्वतोऽन्य:- किन्तु स एव । स च न्यायातसत्तात् , अयुक्तो निदर्शितः ।। ९२ ॥
परः सिंहावलोकितेन स्वाभिमायमाहतत्तज्जननस्वभावं जन्यभावं तथा परम्। अतः स्वभावनियमान्नायुक्तः स कदाचन ॥९॥
तत्- कारणं मृदादि, तज्जननखभावं- घटादिजननस्वभावम् , तथा, परं- घटादि, जन्यभावं- मृदादिजन्यस्वभावम् । अतः खभावनियमाद् हेतु-फलयोः, सः- हेतु-फलभावः, न कदाचनाऽयुक्तः, अन्त्यावस्थायां सर्वेषां प्रत्येकमभिमतकार्योत्पादकत्वात् , अन्यसंनिधेस्तु खहेतुपत्ययसामर्थ्य निमित्तत्वेनोपालम्भानहत्वात् । न च भिन्नकार्योत्पत्तिः, सर्वेषां तस्यैव जनने सामर्थ्यात् । अथवा, मृदादिक्षण एव शक्तिरूपा घटादिहेतुता वास्तवी, अन्यत्र तु पौर्वापर्यनियममात्रम्, इति न विभागा- भावादिदोष इति ॥ ९३ ॥
॥१५०॥
For Private Personal Use Only
Jan Education Interational
www.jainelibrary.org