________________
वासकाहासना भिन्नोऽभिन्ना वा भवेद्यदि। भिन्ना स्वयं तया शून्यो नैवान्यं वासयत्यसौ।८९।
वासकात् सकाशाद् वासना भिन्ना वा भवेत् , अभिन्ना वा ?, इति द्वयी गतिः । तत्र यदि वासकाद् वासना भिन्ना, तदा स्वयं तया शून्योऽसौ वासका क्षणः, नैवान्यं वासयेत् , अन्यक्षणाविशेषात् ।। ८९ ।। अथाभिन्ना न संक्रान्तिरस्यावासकरूपवत्।वास्ये सत्यां च संसिद्धिर्द्रव्यांशस्य प्रजायते९० | अथाभिन्ना वासकक्षणाद् वासना, तदा तस्या वासकरूपवद् निरन्वयविनष्टत्वेन वास्ये संक्रान्तिरन्वयरूपा न स्यात् । सत्यां च- अभ्युपगतायां च संक्रान्ती, द्रव्यांशस्य संसिद्धिः प्रजायते, अन्वयस्यैव द्रव्यसंज्ञितत्वात् ।। ९० ॥
संक्रान्ति विनैव वासना भविष्यतीत्यत आहअसत्यामपि संक्रान्तौ वासयत्येव चेदसौ। अतिप्रसङ्गः स्यादेवं स च न्यायबहिष्कृतः॥९१॥
असत्यामपि संक्रान्तौ- वासकसंवैधरूपायाम् , चेदसौ- वासकक्षणः, वासयत्येव वास्यम् , तदैवं सति, अतिप्रसङ्गः । स्यात् , अन्यस्यापि वासनप्रसङ्गात् , स च न्यायबहिष्कृतः-युक्तिवाधितः ॥ ९१॥
१ क्रियमाणेऽन संधी सप्ताक्षरवप्रसङ्गेन रछन्दोहानिः, संधेरविधाने च 'संहितैकपदवत् पादेऽर्धान्तवर्जम्' इति काव्यसमयातिक्रमः,इति 'भा वाऽभिन्ना' इनि पाठवेत् स्यात्, सुसंगतः स्यात् ।
www.jainelibrary.org
Jain Educat
i
For Private Personal Use Only
onal