SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ वासकाहासना भिन्नोऽभिन्ना वा भवेद्यदि। भिन्ना स्वयं तया शून्यो नैवान्यं वासयत्यसौ।८९। वासकात् सकाशाद् वासना भिन्ना वा भवेत् , अभिन्ना वा ?, इति द्वयी गतिः । तत्र यदि वासकाद् वासना भिन्ना, तदा स्वयं तया शून्योऽसौ वासका क्षणः, नैवान्यं वासयेत् , अन्यक्षणाविशेषात् ।। ८९ ।। अथाभिन्ना न संक्रान्तिरस्यावासकरूपवत्।वास्ये सत्यां च संसिद्धिर्द्रव्यांशस्य प्रजायते९० | अथाभिन्ना वासकक्षणाद् वासना, तदा तस्या वासकरूपवद् निरन्वयविनष्टत्वेन वास्ये संक्रान्तिरन्वयरूपा न स्यात् । सत्यां च- अभ्युपगतायां च संक्रान्ती, द्रव्यांशस्य संसिद्धिः प्रजायते, अन्वयस्यैव द्रव्यसंज्ञितत्वात् ।। ९० ॥ संक्रान्ति विनैव वासना भविष्यतीत्यत आहअसत्यामपि संक्रान्तौ वासयत्येव चेदसौ। अतिप्रसङ्गः स्यादेवं स च न्यायबहिष्कृतः॥९१॥ असत्यामपि संक्रान्तौ- वासकसंवैधरूपायाम् , चेदसौ- वासकक्षणः, वासयत्येव वास्यम् , तदैवं सति, अतिप्रसङ्गः । स्यात् , अन्यस्यापि वासनप्रसङ्गात् , स च न्यायबहिष्कृतः-युक्तिवाधितः ॥ ९१॥ १ क्रियमाणेऽन संधी सप्ताक्षरवप्रसङ्गेन रछन्दोहानिः, संधेरविधाने च 'संहितैकपदवत् पादेऽर्धान्तवर्जम्' इति काव्यसमयातिक्रमः,इति 'भा वाऽभिन्ना' इनि पाठवेत् स्यात्, सुसंगतः स्यात् । www.jainelibrary.org Jain Educat i For Private Personal Use Only onal
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy