SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। ॥१४९॥ सटीकः। स्तबकः। ॥४॥ प्रबल नानात्वाबाधनाच्चेह कुतः स्वकृतवेदनम् । सत्यप्यस्मिन्मिथोऽत्यन्ततद्भेदादिति चिन्त्यताम् ॥ ८७॥ हि च-पुनः, इह- क्षणिकत्वपक्षे, सत्यप्यस्मिन्- हेतु-हेतुमद्भावे पूर्वोत्तरक्षणरूपकर्तृ-भोक्त्रोः , मिथ:- परस्परम् , अन्वयाभावेनाऽत्यन्तभेदात् , स्वकृतवेदनम् - स्वार्जितहिता-अहितकर्म-फलानुभवः, कुतः ? इति चिन्त्यताम्- माध्यस्थ्यमवलम्ब्य विमृश्यताम् ।। ८७ ।। पर आहवास्यवासकभावाच्चेन्नैतत्तस्याप्यसंभवात्। असंभवः कथं न्वस्य, विकल्पानुपपत्तितः॥८॥ वास्यवासकभावात् स्वकृतवेदनं युज्यते, 'स्ववासककृतं स्खेन भुज्यते' इति नियमात , स्ववासककृते स्वकृतत्वव्यवहाराच । अत्रोत्तरम् - इति चेत् । नैतदेवम् , तस्यापि- वास्यवासकभावस्यापि, असंभवात् । पर आह- 'नु' इति वितर्के, कथमस्य-वास्यवासकभावस्य, असंभवः । अत्रोत्तरम्-विकल्पानुपपत्तितः- विकल्प्यमानस्य सतस्तत्त्वनीत्याऽघटमानत्वात् ।। ८८ ॥ तथाहि ---- इन ॥१४९॥ Jan Education Intema For Private Personel Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy