________________
दापामासाटमवार
कग्रह-विनिमोंकाभ्यामविनिगमात् , विशिष्य हेतुताग्रहे चापायाभावादिति । अन्यत्र विस्तरः ॥ ८४ ॥
दोषान्तरमाहविभिन्नकार्यजननस्वभावाश्चक्षुरादयः । यदि ज्ञानेऽपि भेदः स्यान्न चद्भेदो न युज्यते ८५
. विभिन्नकार्यजननस्वभावाश्चक्षुरादयः कारणविशेषा यदीष्यन्ते, तदा तज्जन्ये ज्ञानेऽपि भेदः स्यात् । न चेद् भिन्नकार्यजननस्वभावत्वं, तदा रूप-बुद्धयादेरपि भेदो न युज्यते । प्रत्येक विभिन्न कार्यजननस्वभावत्वादयमदोष इति चेत् । न, तथाप्येकत्र कार्ये प्रत्येक विभेदापत्तेः ।। ८५॥
प्रस्तुतपक्षमुपसंहरतिसामाग्यपेक्षयाप्येवं सर्वथा नोपपद्यते । यद्धेतु-हेतुमद्भावस्तदेषाऽप्युक्तिमात्रकम् ॥८६॥
एवम्- उक्तयुक्त्या, सामग्यपेक्षयापि, यद्- यस्मात् कारणात् , सर्वथा हेतु-हेतुमद्भावो नोपपद्यते; तत्- तस्मात् , एषा-सामग्यपि, उक्तिमात्रक-प्रकृतपक्षासाधिका ॥८६॥
अभ्युपगम्यापि हेतु-हेतुमद्भावं दोषमाह१ ख. ग. घ. च. 'कं भे।
మ్యాంగం
Jan Education internal
For Private
Personel Use Only
w.jainelibrary.org