________________
नात, एकत्वाभ्युपगमे जनकत्वा-ऽजनकत्वाभ्यामप्यक्षणिकस्य तत एव तथात्वाभ्युपगमे बाधकाभावात् । अथ न स्वभावभेदाद् भावभेदः, अपितु विरुद्धस्वभावभेदात् , तत्कार्यजनकत्वा-जनकत्वे चाक्षणिकस्य विरुद्धौ स्वभावौ, उपादानत्व-सहकारित्वशक्त्योश्च न विरोध इति न दोष इति चेत् । न, तथाप्यनेकशक्तितादात्म्यानुविद्धकरूपक्षणाद्यभ्युपगमेऽनेकान्तप्रसङ्गात् । शक्तीनां शक्तिमतोऽभेद एवेत्यभ्युपगमे च 'इदमुपादानम् , इदं च सहकारिकारणम्' इत्यादिविभागाभावप्रसङ्गात् ।। ८० ॥
कल्पनयाऽयं विभागो भविष्यतीति पराभिमायमाशङ्कय परिहरन्नाहअबुद्धिजनकव्यावृत्त्या चेद् बुद्धिप्रसाधकः। रूपक्षणो ह्यबुद्धित्वात्कथं रूपस्य साधकः?॥८॥
अबुद्धिजनकव्यावृत्त्या- 'अबुद्धिजनकेभ्यो व्यावृत्तः' इति कृत्वा, चेत्- यदि, वुद्धिप्रसाधकः- बुद्ध्युपधायकः, रूपक्षणो विकल्प्यते; तदा हि- निश्चितम् , अबुद्धित्वात्- बुद्धिभिन्नत्वात् , कथं स रूपस्य साधकः ? । न ह्यबुद्धिजनकव्यावृत्तमबुद्धिजनकं भवतीति ।। ८१॥
पर आहस हि व्यावृत्तिभेदेन रूपादिजनको ननु। उच्यते व्यवहारार्थमेकरूपोऽपि तत्त्वतः॥८२॥
स हि- रूपक्षणः, 'ननु' इति निश्चये, तत्त्वतः- परमार्थतः, एकरूपोऽपि- एकस्वभावोऽपि, व्यवहारार्थ, व्यावृत्तिभेदेन- अरूपजनकादिव्यावृत्तिविशेषेण, रूपादिजनक उच्यते, विरुद्धरूपस्यैकत्राभावेऽपि विभिन्न रूपेण कल्पनाया अपतिरो
Jain Education interwa
For Private Personal Use Only
w.jainelibrary.org