SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ सटीकः। शाखवार्ता- समुच्चयः ॥१४७॥ च सहकारित्वेन कारणताघटितेनावान्तरसामग्रीभेदेन, युक्त्या विचार्यमाणा, इह- प्रस्तुनविचारे, तदनेकत्वकल्पनासामग्यनेकत्वकल्पना, संगता- युक्ता ॥ ७८ ।। तथाहिरूपं येन स्वभावेन रूपोपादानकारणम् । निमित्तकारणं ज्ञाने तत्तेनान्येन वा भवेत् ?॥७९॥ ___रूपं येन स्वभावेन रूपोपादान कारणं, तेनैव स्वभावेन ज्ञाने निमित्तकारणं, अन्येन वा स्वभावेन भवेत् ? इति पक्षद्वयम् ।। ७९ ॥ आधे आहयदि तेनैव, विज्ञानं बोधरूपं न युज्यते। अथान्येन, बलाद् रूपं द्विस्वभावं प्रसज्यते॥८॥ यदि तेनैव- रूपोपादानखभावेनैव ज्ञानजननस्वभावं रूपं, तदा विज्ञानं बोधरूपं न युज्यते, कार्ये सकलस्वगतविशेषाधायकत्वं युपादानत्वम् , तत्स्वभावत्वं च रूपादेयदि ज्ञानेऽपि जननीये, तदा तद्रूपादिस्वरूपतामास्कन्देद् बोधरूपता जह्यादिति भावः । द्वितीये आह- अथान्येन- उपादेयजननस्वभावभिन्नस्वभावेन रूपं बोधजनक, तदा बलात्त्वदिच्छाननुरोधात् , द्विस्वभावं रूपं प्रसज्यते । अनिष्टं चैतद् भवतः, उपादान-सहकारिशक्तिभेदेऽपि स्वसंविद्येकत्वेनावभास । भवतः- तथागततनयस्य । |१४७॥ FRElwww.jainelibrary.org Jain Education For Private Personal Use Only on
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy