________________
अथ, अन्यत्रापि- बुद्ध्यादिव्यतिरेकेण वसंततावपि, सामर्थ्य- रूपादिजननी शक्तिः, रूपादीनां समग्राणां, प्रकलप्यते । अत्र दोषमाह-न तदेव-बुद्ध्यादिजननसामर्थ्यमेव, तत्- अन्यत्रापि सामर्थ्यम् , अन्यस्यापि बुद्ध्यादित्वव्याप्तेः, A इति- उक्तहेतोः, नाना- अनेक बुद्धि-रूपादिजननसामर्थ्यम् । एवं च- नानात्वे च, एकत्र- एकस्वभावे रूपादौ, तत्- साम| र्यम् , कुतः, नानासामर्थ्यखभावत्वेन सर्वथैकत्वविरोधात् ॥ ७६ ॥
परपक्ष एव दोषान्तरमाहसामग्रीभेदतो यश्च कार्यभेदःप्रंगीयते । नानांकार्यसमुत्पाद एकस्याः सोऽपि बाध्यते ॥७॥
यश्च परैः सुगतसुतैः सामग्रीभेदतः- सामग्रीविशेषात् , कार्यभेद:- कार्यविशेषः, प्रगीयते- प्रतिज्ञायते, सोऽपि, | एकस्या एव सामग्या रूपा-ऽऽलोकादिनानाकार्यसमुत्पादेऽभ्युपगम्यमाने, बाध्यते, सामग्यविशेषेऽपि कार्यविशेषादिति भावः ॥ ७७॥ ___ अत्रैव पराभिप्रायं निषेधतिउपादानादिभावेन न चैकस्यास्तु संगता । युक्त्या विचार्यमाणेह तदनेकत्वकल्पना॥७॥
नच, एकस्यास्तु- सामान्यत एकस्या एव सामग्याः , उपादानादिभेदेन-ज्ञानादौ मनस्कारादेरुपादानत्वेन, इतरेषां १ज. 'प्रतीय' । २ ख.ग.प. च. 'नाकमस' ।
Jain Education Inter
For Private & Personal Use Only
Pariww.jainelibrary.org