________________
शाखवार्ता
तस्य- बुद्ध्यादेः कार्यस्य, प्रत्येकं- रूपादिकमेकैकमपेक्ष्य, तद्भावे- तेभ्ध उत्पत्तिस्वभावत्वे, हि- निश्चितम् , उक्त- सटीकः । समुच्चयः। स्वभावता- सर्वसामर्थ्य भूतिस्वभावता, युक्ता । अत्रोपपत्तिमाह-न हि यत् सर्वसामर्थ्य नाम, तत् प्रत्येकत्ववर्जितम्- स्तबकः । ॥१४६॥ प्रत्येकसामर्थ्य भिन्नम् , प्रत्येकाऽवृत्तेः समुदायाऽवृत्तित्वनियमादिति भावः ॥ ७४ ॥
___ प्रत्येकसामर्थ्य च परिहतमेवेति दर्शयतिअत्र चोक्तं न चाप्येषां तत्स्वभावत्वकल्पना। साध्वीत्यतिप्रसङ्गादेरन्यथाप्युक्तिसंभवात्।७५,
अत्र च-प्रत्येकजन्यत्वस्वभावपक्षे च, उक्तम्- 'यज्जायते' इत्यादि । दोषान्तरमाह-न चापि, एषाम्- अधिकृतसमग्रहेतूनाम् , तत्स्वभावत्वकल्पना-प्रकृतफलजननस्वभावत्वकल्पना, अतिप्रसङ्गादेर्दोषात् , साध्वी-न्याय्या समग्रान्तराण्यपि तज्जननस्वभावानि भवन्त्वित्यतिप्रसङ्गः, आदिशब्दादेक एव तजननस्वभावोऽस्तु, शेषा उपनिमन्त्रितकल्पा इत्यादिदोषसंग्रहः । एवमपि तत्स्वभावत्वोक्तौ दोषमाह- अन्यथाऽप्युक्तिसंभवाद- समग्रान्तराणामपि तत्स्वभावत्ववचनसंभवात् , युक्तिवैकल्यस्य चोभयसाधारणत्वात् । इतिराद्यपक्षसमाप्त्यर्थः ।। ७५ ॥
मौलं विकल्पमधिकृत्य पक्षान्तरमाह। अथान्यत्रापि सामर्थ्य रूपादीनां प्रकल्प्यते। न तदेव तदित्येवं नाना चैकत्र तत्कुतः?॥७॥ १ कारिका ७२ ।
॥१४६॥
Jain Education Interational
For Private
Personal Use Only
www.jainelibrary.org