SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter एतदेव समर्थयन्नाह - प्रत्येक सामर्थ्यं नान्यतो हि तत् । तयोरभिन्नतापतेर्भेदे भेदस्तयोरपि ॥७२॥ यत् कार्यम्, एकसामर्थ्यं कारणगतं, प्रतीत्य, जायते, तद्धि- तदेव, अन्यतः कारणसामर्थ्यान्तरात्, न जायते । कुतः १ इत्याह- तयो:- कारणसामर्थ्ययोः, अभिनतापत्तेः- एकत्वप्रसङ्गात्, एककार्यजनकत्वेनैकस्वभावत्वौचित्यात् । भेदे तयोः - सामर्थ्ययोः कुतश्चिदन्यतो निमित्तात् स्वभावभेदेऽभ्युपगम्यमाने, तयोरपि तदुभयजन्यबुद्ध्यादेरपि भेदः स्यात्, प्रत्येकजन्यत्वस्वभावभेदात् ।। ७२ ।। पराभिप्रायमाशङ्क्य परिहरति प्रतीत्यैकसामर्थ्यं जायते तत्र किंचन । सर्वसामर्थ्यभूतिस्वभावत्वात्तस्य चेन्न तत् ॥७३॥ एकसामर्थ्यं प्रतीत्य- आश्रित्य तत्र - कार्ये, न किञ्चन तज्जन्यतानियतं रूपं ( जायते ) । कुतः १ इत्याह- तस्यअधिकृतकार्यस्य, सर्वसामर्थ्यभूतिस्वभावत्वात्- अधिकृत सकल हेतु शक्त्यपेक्षोत्रच्येक स्वभावत्वात् इति चेत् । न तत्- नैतदुक्तं युक्तम् ।। ७३ ।। कुतः ? इत्याह प्रत्येकं तस्य तद्भावे युक्ता ह्युक्तस्वभावता । न हि यत्सर्वसामर्थ्यं तत्प्रत्येकत्ववर्जितम् ॥७४॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy