SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ शाखवार्ता समुच्चयः ॥१४५|| . स्तबका। ॥४॥ प्रभूतानां च-विभिन्नानां च रूपादीनाम् , एकत्र- एकजातीये बुद्धयादिकार्ये, सामर्थ्यकल्पना- शक्तिसमर्थना, साध्वी न-न्यायया न । कुतः ? इत्याह- तेषां- समर्थानां, प्रभूतभावेन- विभिन्नत्वेन, तदेकत्वविरोधतः- कार्यकत्वविरोधात् ।। ६९ ॥ ____एतदेव भावयन्नाह-- तानशेषान् प्रतीत्येह भवदेकं कथं भवेत् ? । एकस्वभावमेकं यत्तत्तु नानेकभावतः ॥७॥ तान्- समर्थान् , अशेषान् , प्रतीत्य- आश्रित्य, इह- लोके, भवत् कार्यम् , एक कथं भवेत् ?-नैव भवेदित्यर्थः । अत्रोपपत्तिमाह- यद्- यस्मात् , एकस्वभावमेकम् 'उच्यते' इति शेषः, तत्तु- एकस्वभावं तु, अनेकभावतः-- अनेकेभ्यो रूपादिभ्यो हेतुभ्य उत्पत्तेः, न घटते ॥ ७० ।। कथम् ? इत्याहयतो भिन्नस्वभावत्वे सति तेषामनेकता । तावत्सामर्थ्यजत्वे च कुतस्तस्यैकरूपता? ७१ यतः- यस्मात् , भिन्नस्वभावत्वे- नानास्वभावत्वे सति, तेषां- रूपादीनाम् , अनेकता, नान्यथा तावत्सामर्थ्यजत्वे चतावत्कारणशक्तिजन्यत्वे च, तस्य- बुद्ध्यादेः- कार्यस्य, कथमेकरूपता-- एकस्वभावता, रूपादिशक्तिजन्यत्वस्वभावभेदात् ? ॥ ७१ ।। Jain Education Intera For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy