SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ । तथाहिसर्वेषां बुद्धिजनने यदि सामर्थ्य मिष्यते । रूपादीनां ततः कार्यभेदस्तेभ्यो न युज्यते ॥६॥ सर्वेषां- रूपादीनां, बुद्धिजनने-बुद्धिलक्षणैकजातीयकार्योत्पादने, यदि सामर्थ्य- शक्तिः, इष्यते- अङ्गीक्रियते । एक कार्य तु सौत्रान्तिक-वैभाषिकमते रूपादिजन्यमप्रसिद्धम् , तन्मते संचितेभ्यः परमाणुभ्यः संचितानां परमाणूनामेवोत्पादात् , - संवृतिसत एकस्य घटादेस्तदजन्यत्वात् , ज्ञानस्यापि ग्राह्य-ग्राहकाकारद्वयप्रतिभासनादिति बोध्यम् । ततः- तेषामेकजनकत्वात् , तेभ्यः सकाशात् , कार्यभेदः- रूपादिकार्यविशेषः, न घटते, किन्तु बुद्धिरेवैका स्यात् ।। ६७ ॥ न चैवमेवास्तु, इत्याह। रूपालोकादिकं कार्यमनेकं चोपजायते। तेभ्यस्तावद्भय एवेति तदेतच्चिन्त्यतां कथम् ?६८ रूपा-ऽऽलोकादिकं कार्य खस्वसंततिगतम् , अनेकं च-विभिन्न च, उपजायते । तदेतत् - विभिन्नकार्यभवनम् , तेभ्यः- रूपादिभ्यः, तावद्भय एव- तावत्संख्याकेभ्य एव, कथम्, इति चिन्त्यताम् सर्वेषामेव बुद्धिजननसमर्थत्वात् KA रूपादौ जननीयेऽतिरिक्तानागमनात् ॥ ६८ ॥ दोषान्तरमाहप्रभूतानां च नैकत्र साध्वी सामर्थ्यकल्पना । तेषां प्रभूतभावेन तदेकत्वविरोधतः ॥६९॥ पादिकार्यविशेषः, न ग्रास ग्राहकाकारदयभनिभासरमाणभ्यः संचिताना पने । Jain Education in For Private & Personel Use Only alwww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy