SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । ।। १४४ ।। तत्वस्वाधिकरणत्वोभयसंबन्धेन घटादिनाशस्य हेतुत्वात् समवायसिद्धिः, स्वप्रतियोगिवृत्तित्वेन तथात्वे घटादिवृत्तिध्वंसध्वंसापत्तेः । न च द्वित्रिक्षणस्थायिघटादिसमवेतनाशे स्वप्रतियोगि समवेतत्वेनैव तथात्वात् सत्त्वेन नाशहेतुत्वे कल्पनाद् न तदापत्तिरिति वाच्यम् ; तत्रापि कालावच्छिन्न स्वप्रतियोगिसमवेतत्वेनैव तथात्वेऽनतिप्रसङ्गात्; इति चेत् । न, उक्ते हेतुतावच्छेदकेऽवलुप्तसमवायनिवेशापेक्षया क्लृप्तसम्वनिवेशस्यैवोचितत्वात् । 'द्रव्यजात्यन्यचाक्षुषे महदुद्भूतरूपवद्भिन्नसमवेतत्वेन प्रतिबन्धकत्वात् समवायसिद्धिः' इत्यपि वार्तम्, द्रव्यान्यसच्चाक्षुषत्वावच्छिन्नं प्रति महदुद्भूतरूपवद्भिन्नवृत्तित्वेन तत्त्वसंभवादिति न किश्विदेतत् । अधिकं ज्ञानार्णव- स्याद्वादर हस्य न्यायालोकादौ ॥ ६५ ॥ सामग्रीपक्षमपि स्फुटतरं विक्षिपति यापि रूपादिसामग्री विशिष्टप्रत्ययोद्भवा । जकनत्वेन बुद्ध्यादेः कल्प्यते साऽप्यनर्थिका ६६ यापि रूपादिसामग्री - रूपा - ssलोक- मनस्कार-चक्षुः संनिधानादिरूपा, विशिष्टप्रत्ययोद्भवा- स्वहेतुसंनिधिपरम्परोपजनितविशेषा, बुद्ध्यादे:- कार्यजातस्य, जनकत्वेनाऽन्त्यैव कल्प्यते, समर्थस्य कालक्षेपायोगेन कार्याजनकानां सामन्यामनुप्रवेशात् । साऽपि - खोपक्लृप्ता सामग्यपि, अनर्थिका प्रयोजन विकलकल्पनाविषया ।। ६६ ।। १ अन्त्या यदव्यवहितोत्तरक्षणे कार्य संपद्यते, अविकलेति यावत् । Jain Education rational For Private & Personal Use Only सटीकः । स्तवकः । ॥ ४ ॥ ॥१४४॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy