________________
क्त्वादीनां चैक एवायम् , तदभिप्रायेणैव समवायैकत्ववादः, युक्तं चैतत् , इत्थमेव चक्षुःसंयुक्तघटादिसमवायात् पटत्वादेः प्रत्यक्षानापत्तेः' इति वदन्ति । तदपि न, गुणत्वावच्छेदेन गुणिस्वरूपसंवन्धत्वकल्पनादतिरिक्तसंबन्धकल्पनानौचित्यात् , 'जले स्नेहस्य समवायः, न गन्धस्य' इति प्रतीतिवद् 'घट-रूपयोः संबन्ध एव न घट-रसयोः संबन्धः' इति प्रतीतेरपि सवात् , अतिरिक्तसमवायाननुभवात् , अपृथग्भावस्यैव समवायपदार्थत्वात् । यदि पुनरेवमप्यनुगतसंबन्धधीनिर्वाहायाप्रामाणिकसमवायाभ्युपगमो न त्यज्यते, तदा लाघवादभावादिसाधारणं वैशिष्टयमेव किमिति नाभ्युपैषि ? । न चैवं पटवति भूतले पटाभावधीप्रसङ्गः, तदानीं तदधिकरणतास्वाभाव्याभावस्य वक्तुमशक्यत्वात् , स्वभावस्य यावद्द्व्यभावित्वात् , रक्ततादशायां घटे श्यामाधिकरणताखाभाब्येऽपि श्यामाभावेन तदंशे लौकिकप्रत्यक्षाभावादिति वाच्यम्, शाखावच्छिन्नसंयोगसमवायस्य मूलावच्छेदेनेव वैशिष्टयस्य तत्काले तदधिकरणावच्छेदेन पटाभावं प्रत्यसंबन्धत्वात् । न च तत्र शाखासमवायोभयमेव संवन्धः, न तु समवायस्य संवन्धत्वे शाखावच्छेदिकेति वाच्यम् , शाखावच्छेदेन समवायसंबन्धावच्छिन्नसंयोगाभावग्रहेऽपि 'शाखायां संयोगी' इति बुद्ध्यापत्तेः, तत्र शाखासमवायोभयसंबन्धावच्छिन्नसंयोगाभावग्रहस्यैव विरोधित्वात् , तत्रोक्ताभावग्रहप्रतिबन्धकत्वस्यापि कल्पने गौरवात् । अस्तु वा 'इदानी पटाभावः' इत्यत्रापि तत्कालवैशिष्टयोभयसंबन्धेन पटाभाव एव विषय इति न किञ्चिदनुपपन्नम् । न च समवायेन जन्यभावत्वावच्छिन्नं प्रति द्रव्यत्वेन हेतुत्वात् तत्सिद्धिः, कालिकविशेषणताभिन्नवैशिष्टयेनैव तदुपपत्तेः । अर्थ प्रतियोगितया घटादिसमवेतनाशं प्रति वप्रतियोगिसमवे
। अतः 'प्रसङ्गात् ' पर्यन्तः पूर्वपक्षः ।।
Jain Education
For Private Personal Use Only
www.ainelibrary.org