________________
शाखवार्तासमुच्चयः। ॥१४३॥
सटीकः। स्तबकः। ॥४॥
यत्तु 'रूपसमवायसवेऽपि वायौ स्वभावतो रूपाभावादेव नीरूपत्वम्' इति चिन्तामणिकृतोक्तम् । तदसत, प्रतियोगिसंबन्धसत्वे तत्संबन्धावच्छिन्नाभावायोगात् । अथ प्रतियोगिसंबन्धसत्त्वेऽपि तद्वत्ताया अभावात् तत्र तदभावाविरोधः । न च तत्संबन्धस्तद्वत्तानियतः, गगनीयसंयोगे व्यभिचारात् । न च 'वृत्तिनियामक' इति विशेषणाद् न दोष इति वाच्यम् , करवृत्तितानियामककपालसंयोगवति कपाले कपालाभावसत्वेन व्यभिचारात् । यत्र यदृत्तितानियामकः संबन्धः, तत्र तद्वत्त्वनियम इति चेत् । तर्हि रूपसमवायस्य वायुवृत्तित्वानियामकत्वादेव वायौ न तद्वत्वम् । इति चेत् । न, तत्र तवृत्तितानियामकत्वं हि तत्र तद्विशिष्टबुद्धिजनकत्वम् । अस्ति च वायावपि 'इह रूपम्' इति धीः, तंदभावप्रत्यक्षवादिनापि तत्रावश्य तत्स्वीकारात् । साऽऽरोपरूपा, न तु प्रमेति चेत् । न, 'तदभावधियः सत्यत्वासिद्धौ तदप्रमात्वासिद्धेः' इति मिश्रेणेवोक्तत्वात , प्रतियोगित्वादेरनतिरेकेण तदनुयोगितानिरूपिततत्मतियोगिताकवैशिष्ट्यस्य तत्र तवृत्तिनियामकत्वस्य वक्तुमशक्यत्वात् । यत्तु 'एकस्यैव समवायस्य किञ्चिदधिकरणावच्छेदेन रूपसंबन्धत्वकल्पनेनैव व्यवस्थोपपत्तिः' इति । तन्न, रूपसंबन्धत्वं हि रूपप्रकारकविशिष्टज्ञानीयसंसर्गताख्यविषयताशालित्वम्, तच्च तत्तदधिकरणावच्छेदेन तत्तदधिकरणान्तर्भावेन विशिष्टधीहेतुतयैव निर्वहतीति महागौरवात् , अस्माकं तु रूपप्रकारकविशिष्टबोधे रूपसंबन्ध एव तन्त्रमिति लाघवात् । किञ्च, एवं 'रूपसंबन्धे न रूपसंबन्धत्वम्' इति व्यवहारःप्रामाणिकः स्यात् ।
अन्ये तु- 'रूपि-नीरूपिव्यवस्थानुरोधाद् नानैव समवायः, समनियतकाल-देशावच्छेदकानां संख्या-परिमाण-पृथ1 इतः तद्वत्वम्' इति पर्यन्तो नैयायिकपूर्वपक्षः । २ नैयायिकेच । ३ इह रूपमिति धियस्तदा परामशः। ५ जनानाम् ।
॥१४३॥
Jain Education H
ansa
For Private & Personel Use Only
www.jainelibrary.org