________________
वात, संयोगितादात्म्यसंयोगादिसंसर्गकबुद्धवलक्षण्यापत्त्या संबन्धतावच्छेदकज्ञानस्वीकारात्, सांसर्गिकज्ञानस्थानुपनायकत्वेन निरुक्तपकारत्वस्यानुव्यवसायग्राह्यत्वासंभवात् , विषयविशेषं विना ज्ञाननिष्ठपकारिताविशेषाभ्युपगमे च साकारवादापातादिति दिग्।
यत्तु- 'प्रथमानुपानादेव समवायसिद्धिः, समवायवाघोत्तरकालकल्पनीयेन स्वरूपसंवन्धनार्थान्तराभावात्' इति मिश्रेणाभिहितम् । तदसत्, स्वरूपसंवन्धत्वस्य परिणामविशेषरूपत्वात् , एकक्षेत्रावस्थितधर्मिद्वयस्वरूपसंयोगस्थलेऽपि स्वरूपस्यैव संवन्धत्वात् , अन्यथा 'कुण्ड एव बदरविशिष्टधीः, न तु बदरे कुण्डविशिष्टधीः' इति नियमायोगात्, स्वरूपसंबन्धत्वस्य संयोगसमवायातिरिक्तत्वाघटितत्वात् , समवायसंबन्धतयाऽप्यस्यैवोपजीव्यत्वादिति । यदपि तद्धट-रूपयोविशिष्टबुद्धौ विनिगमनाविरहादुभयोः संबन्धिनोः संबन्धत्वं कल्पनीयम् , तथाच लाघवादेक एव समवायः संबन्धत्वेन कलप्यते, अभावस्थले त्वधिकरणानां नानात्वेऽप्येकस्यैवाभावस्य संवन्धत्वं युक्तम् , इति न तत्र संबन्धान्तरकल्पनप्रतिवन्धवकाश इति । तदपि न, 'समवायः, तत्र समवायत्वम् , क्लुप्तभावभेदः, नानाधिकरणवृत्तित्वम्' इत्यादिकल्पनायां महागौरवात् ।।
एतेन 'गुण-गुयादिस्वरूपद्वये संवन्धत्वम् , अतिरिक्तसमवाये वेति विनिगमनाविरहादप्यन्ततः समवायसिद्धिः' इति पदार्थमालाकृतो वचनमपहस्तितम् , जातेरनुगतत्वेन व्यक्तिसंबन्धत्वौचित्ये जाति-व्यक्त्योः समवायोच्छेदापत्तेश्च । किञ्च, रूपि-नीरूपिव्यवस्थानुरोधेन रूपादीनां संबन्धत्वकल्पनावश्यकत्वाद् न समवायस्य संबन्धत्वम् , वायवादेनीरूपत्वस्य रूपीयतद्धर्मताख्यसंबन्धाभावादेव पक्षधरमिश्ररुपपादितत्वात् , तद्धर्मतायाश्च तद्रूपानतिरिक्तत्वात् ।
कल्पनीयम् , तथा
तत्र संबन्धान्तकौरवात् ।
in Education Intema
For Private
Personel Use Only