________________
शास्त्रवातासमुच्चयः। ॥१४२॥
स्तबकः। ॥४॥
संबन्धत्वकल्पनात् । किञ्च, प्रतीतेविषयभेदोऽनुभवात् , सामग्रीभेदाद् वा, न तु लाघवात् , अन्यथा सविषयत्वानुमानात् संबन्धाविषयत्वमेव सिध्यदिति ।
अथ विशेषणसंबन्धनिमित्तका इति साध्य, हेतौ च सत्यत्वं विशेषणम् , तेन विशिष्टभ्रमे न व्यभिचारः, बुद्धिपदं च प्रत्यक्षपरम् , तेन नांशतो बाध-व्यभिचाराविति समवायसिद्धिरिति चेत् । न, गुणादिविशिष्टप्रत्यक्षे विशेषणसंबन्धत्वेन न हेतुत्वम् , संबन्धत्वस्य विषयत्वादिगर्भतया जनकतानवच्छेदकत्वादिति मिश्रेणैवोक्तत्वात् । न चौत एव गुणादिविशिष्टप्रत्यक्षे गुणादिसमवायत्वेन हेतुत्वम् । न च समवायत्वमपि नित्यसंवन्धत्वरूपमित्युक्तदोषानिस्तार इति वाच्यम् , समवायस्याखण्डतया तब्यक्तित्वेनैव हेतुत्वात् , तव्यक्तित्वं च तादात्म्येन सा व्यक्तिरेवः इति वाच्यम् , गुणादिसमवायत्वापेक्षया गुणत्वादिनैव हेतुत्वौचित्यात् । न चाभावादिविशिष्टबुद्धिव्यावृत्तानुभवसिद्धवलक्षण्यविशेषवबुद्धित्वावच्छिन्नं प्रति समवायं विना नान्यद् नियामकम् , गुणत्वादिना हेतुत्वे व्यभिचारादिति वाच्यम् , वैलक्षण्यस्य जातिरूपस्य स्मृतित्वा-ऽनुमितित्वादिना सांकर्यात् , विषयितारूपस्य च समवायासिद्ध्या दुर्वचत्वात् । एतेन 'संबन्धाशे विलक्षणविषयताशालिगुणादिविशिष्टप्रत्यक्षे तद्धतुत्वम्' इति परास्तम् , वस्तुनस्तथाज्ञेयत्वस्वभावविशेषादेव ज्ञानविशेषाच्च, अ. न्यथा समूहालम्बन-विशिष्टबुझ्योरविशेषापातात् , भासमानवैशिष्ट्यप्रतियोगित्वरूपप्रकारताया दण्ड-पुरुष-संयोगा इत्यत्रापि । सत्वात् , स्वरूपतो भासमानं यद् वैशिष्ट्यं तत्प्रतियोगित्वोक्तौ संयुक्तसमवायादेः संवन्धत्वे 'खरूपतः' इत्यस्य दुर्वच-
हतः 'व्यक्तिरेव' पर्यन्तोऽन्तर्भूतपूर्वपक्षात्तरपक्षः पूर्वपक्षः ।
॥१४॥
Jain Education in
For Private
Personal Use Only