________________
अत्र नैयायिकः- ननु नैतत् साम्राज्यम् , स्वसमवेतकार्यकारित्वेनैव स्वोपादानत्वात् , सत्कार्यकारित्वेनैव खोपादानत्वसंभवात् , सत्तासमवायेनैव चार्थानां सत्वात , अनुत्पत्तिदशायां प्रागभावरूपासत्वेऽपि सत्ताभावायोगेनाविरोधात् , घटपागभावदशायां घटसत्त्वाभ्युपगम एव विरोधात् । तस्य घटत्वावच्छिन्नत्वाभावेन घटत्वावच्छिन्नेन सह विरोधस्य वक्तुमशक्यत्वादिति चेत् । न, विरोधस्य विशिष्या कल्पनात् , 'इदानीं सन् घटः प्राग न सन्' इति धियः 'इदानीं श्याम: प्राग न श्यामः' इतिवदुभयैकरूपवस्त्ववगाहित्वात् , समवाये मानाभावाच्च । न हि 'गुण क्रिया जातिविशिष्टयुद्धयो विशेपणसंबन्धविषयाः, विशिष्टबुद्धित्वात् , दण्डीति बुद्धिवत्' इत्यनुमानात् तत्सिद्धिः, अभावज्ञानादिविशिष्टबुद्धिभिर्व्यभिचारात् । न च तासामपि वरूपसंबन्धविषयत्वाद् न व्यभिचारः । तर्हि तेनैवार्थान्तरस्वात् । न च लाघवान् पक्षधर्मतावलेनैकसमवायसिद्धिः, पक्षबाहुल्यलाघवस्यानुपादेयत्वात् । अन्यथा द्रव्यमपि पक्षेऽन्तर्भाव्य समवायसिद्धिप्रसङ्गात् । न चानुभवसिद्धसंयोगाद् बाधः, प्रमाणसमाहारे प्रमेयसमाहाराविरोधात् । न च नानाविशेषणसंबन्धे एकत्वा-नेकत्वादर्शनात् तत्र लघु-गुरुविषयताऽसंभवेऽपि संबन्धकत्वाऽनेकत्वयोर्दर्शनेन तत्र तत्संभवात् , प्रत्येकविशिष्टबुद्धिपक्षीकरणे लाघवात्समवायसिद्धिः, स्वरूपसंबन्धस्य संबन्धिद्वयात्मकत्वेन गौरवात् , धर्मातिन्यायस्याप्येककल्पनालाघवमूलत्वेनात्रानवतारादिति वाच्यम्, द्रव्येऽपि तत्सिद्धयापत्तेः । न च संयोगत्वावच्छेदेन संवन्धत्वल्पनात् तत्र संबन्धान्तरकल्पने लाघववैपरीत्यम् , गुण-गुण्यादिद्वये तु नैवमनुगतं धर्मान्तरमस्ति, येन क्लसलाघवाद् वैपरीत्यं स्यादिति वाच्यम् , तत्रापि वस्तुत्वसवाद्यवच्छेदेन
१ ज. 'त्यसं'। २ ख. ग, घ, 'त्राव'!
For Private Personal Use Only
Jain Education internatiote
Wainelibrary.org