________________
SSION
अर्थक्रियाकारित्वाभावेन स्वरूपसत्वस्य स्वमावगतपदार्थवद् वस्तुव्यवस्थाऽहेतुत्वात् । तथा, तदवस्थान्तरं च- असदवस्थाविशेषव, स:- भावः, पामोति, अनुत्पत्तिरूपासत्ताया एवोत्पत्तिरूपसत्तावस्थामाप्तेः ॥ ६२ ॥
इदमेव भावयतिवस्तुनोऽनन्तरंसत्ता तत्तथा तांविना भवेत् ।नभःपातादसत्सत्त्वयोगाहेति न तत्फलम् ६३
वस्तुनः- मृदादेः, अनन्तरं सत्ता घटादिकार्यरूपा, तत्तथा तां विना- मृदादरेव तद्भावमन्तरेण, नभःपातातHD अकस्माद् वा भवेत् , असत्सत्वयोगाद्वा- असतः सदवस्थापत्तेर्वा, इति हेतोनियमायोगाद्, न तत्फलम्- न तस्यैव कार्य तदिति ॥ ६३ ॥
उपन्यस्तशेष निराकरोति• असदुत्पत्तिरप्येवं नास्यैवप्रागसत्त्वतः। किन्त्वसत्सद्भवत्येवमितिसम्यग्विचार्यताम् ॥६४
असदुत्पत्तिरपि, एवम्-उक्तेन प्रकारेण, नास्य- अधिकृतभावस्य, प्रागसत्चत एव- प्राक्कालवृत्तित्वाभावमात्रादेव, किन्तु- एवं त्वदभ्युपगमरीत्या, असत् सद् भवति, इति सम्यक्- मूक्ष्माभोगेन, विचार्यताम् ; तथाहि- नाशवत् प्रागभावोऽपि तब तुच्छ एव, ततस्तत्संबन्धादसत्त्वमेव वस्तुन आपतितम् , इत्यसत एवोत्पत्त्या सद्भवनं सिद्धम् । अथ प्रागभावसंबन्धित्वरूपं प्रागसत्वं काल्पनिकमेव, तात्त्विकं त्वधिकरणात्मकपाकालवृत्तित्वाभावरूपं तदेवोत्पत्तिव्याप्यम् । अतो न
Jain Education International
For Private Personal Use Only
www.jainelibrary.org