________________
शास्त्रवार्ता - रस्याग्न्यादेः कार्यम्, मता- दृष्टा । तस्याः कथमुत्पत्तिः ? इत्याह- सैव- सत्ता भावोत्पत्तिः, उत्पच्यु त्पत्तिमतोरभेदात्, तदात्मिका भावात्मिकैव नान्या । ततः सत्ताया एवं जनकत्वात् कथमसज्जनकत्वेनातिप्रसङ्गोद्भावनं युक्तम् ? इत्याशयः ।। ६० ।।
समुच्चयः
॥१४०॥
ननु यद्येवम्, तर्हि कथम् 'असत उत्पत्तिः' इत्युच्यते १ इत्यत आह
असदुत्पत्तिरप्यस्य प्रागसत्त्वात् प्रकीर्तिता । नासतः सत्त्वयोगेन कारणात्कार्यभावतः॥६- १॥
असदुत्पत्तिरपि अस्य सत्तात्मकस्य भावस्य मागसवात्- माकालवृत्तित्वाभावात् प्रकीर्तिता । विशेषमाहअसत:- तुच्छस्य, सत्र योगेन सच्वव्यापारेण न । कुतः ? इत्याह- कारणात् सकाशात्, कार्यभावतः कार्योत्पादात्, भावाद्धि भावोत्पत्तिरिति । न हि मागसत्त्वमनुत्पत्तिव्याप्यम्, किन्त्वसत्त्वमेव, नापि प्रागसतः सत्ताऽनुपपन्ना, किन्त्वसत एवेति भावः ॥ ६१ ॥
यथैतत् प्रतिक्षिप्तं तथा लेशतो दर्शयति
प्रतिक्षिप्तं च तद्धेतोः प्राप्नोति फलतां विना । असतो भावकर्तृत्वं तदवस्थान्तरं च सः ॥६२॥ प्रतिक्षिप्तं चैतत्, तद्धेतोः - विशिष्टफलहेतोर्मृदादेः, फलतां विना- घटादिरूपेण भवनमन्तरेण, प्राप्नोति- आपद्यते । किम् ? इत्याह- असत:- तुच्छस्यैव, भावकर्तृत्वं, कारणत्वेनाभिमतस्य तत्त्वतोऽकारणत्वात्, कार्योत्पादकाले तस्यासत्वात्,
Jain Education International
For Private & Personal Use Only
सटीकः । स्तबकः ।
118 11
॥ १४० ॥
www.jainelibrary.org