________________
SPOctober
धूमजननदर्शनादिति परस्याशयः । सोऽयमयुक्तः, वह्निना स्वसमीपदेश एव धूमोत्पादादनन्तरं तदुपसर्पणस्यापि तत्तात्यादिहेतुदेशनियतदेशत्वात , अन्यथा काशीयो वह्निः प्रयागेऽपि धूमं जनयेत् । न च लोहोपलस्यासनिकष्टलोहाकर्षकत्ववदन्यत्रापि तथाकल्पनम् , अतिप्रसङ्गात् । शक्तिरपि मूक्ष्मकार्यरूपैव, अत एव तिलादौ तैलसद्भाव निश्चित्यैव तैलार्थिनस्तत्र प्रवर्तन्ते, इति न किश्चिदेतदिति दिक् ॥ ५८।।
एतेन प्रसङ्गाभिधानेन यद् व्युदस्तं तदभिधातुकामः पाहo एतेनैतत्प्रतिक्षिप्तं यदुक्तं सूक्ष्मबुद्धिना। 'नासतो भावकर्तृत्वं तदवस्थान्तरं न सः' ॥५९॥
एतेन- अनन्तरादितप्रसङ्गेन, एतत्- वक्ष्यमाणम् , प्रतिक्षिप्तम्- अपाकृतम् , यदुक्तं मूक्ष्मबुद्धिना-कुशाग्रीयधिया शान्तरक्षितेन । किमुक्तम् ? इत्याह- नासतः- तुच्छस्य कारणस्य, भावकर्तृत्व- वस्तुजनकत्वम् , येन शशशृङ्गादेरपि जनक- 21 स्वप्रसङ्गः स्यात् । तथा, सः- उत्पद्यमानो भावः, तदवस्थान्तरं न- सद्रूपापन्नासदवस्थाक्रान्तो न, येन शशशृङ्गेऽपि सदवस्थापादनेन हेतुव्यापारोपवर्णनं सफलं स्यात् ॥ ५९॥
किं तर्हि तत्वम् ? इत्याहवस्तुनोऽनन्तरं सत्ता कस्यचिद्या नियोगतः।सा तत्फलं मता सैव भावोत्पत्तिस्तदात्मिका ६०
वस्तुनः- अग्न्यादेः, अनन्तरं सत्ता, कस्यचिद्-धूमादेः, नियोगतः- नियमेन, याः सा तत्फलं- तस्यानन्त
Jain Education Intera
For Private & Personal Use Only