SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता समुच्चय: ॥१३९॥ Jain Education प्रत्यविशिष्टत्वाद् न तन्नियमहेतुता न कार्यविशेषनियमहेतुता कारणविशेषे । इत्यक्षरार्थः । अयं भावः - घटकुर्वद्रूपत्वेन घटहेतुतया कथंचित्कालनियमादिनिर्वाहेऽपि देशनियमस्तथाभावि कारणानभ्युपगमे दुर्घटः, सर्वेषां घटकुर्वद्रूपक्षणानामेकत्रा सच्चात्, मृत्पिण्डक्षणदेशेऽपि पूर्वत्र घटक्षणानुत्पत्तेश्च । न च मृदूपघटक्षणं प्रति घटकुर्वद्रूपमृत्क्षणत्वेन हेतुत्वाद् नानुपपत्तिरिति वाच्यम्, दण्डादिसमाजादमृदूपघटापत्तेः । न च दण्डादीनामपि मृद्रूपघटत्वावच्छिन्नं प्रत्येव हेतुत्वादु नायं दोष इति वाच्यम्, स्फुटगौरवात् कार्यगतयावद्धर्माणां कार्यतावच्छेद के प्रवेशप्रसङ्गात् कारणगतमृद्रूपस्य कार्यक्रमेऽन्वयप्रसङ्गात्, अतिरिक्तस्यानिर्वचनाच्च । तस्माद् घटयोग्यताया घटहेतुत्वं विना न निर्वाह इति सूक्ष्ममीक्षयम् ।। ५७ ।। पराभिप्रायमाशक्य परिहरति योऽप्येकस्यान्यतो भावः संताने दृश्यतेऽन्यदा । तत एव विदेशस्थात्सोपि यत्तन्न बाधकः ५८ योऽपि कचिदेकस्य धूमादेः, अन्यतः - अग्न्यादेः सकाशात्, भावः - भूत्वा भावः, अन्यदा उत्पादादूर्ध्वम्, संताने दृश्यते, क्षणयोर्न व्यावहारिकं ग्रहणमिति संतानग्रहणम्, सोऽपि विदेशस्थात्- देशान्तरस्थितात्, तत एव - अग्न्यादेरेव, यद् - यस्मात् तत् - तस्मात् न बाघको नियतकल्पनाया अयम् । इत्यक्षरार्थः । अयं भावः -- तत्कार्यजननशक्तिमदेव कारणं तत्कार्यजनकम्, देशनियमस्तु स्वभावादेव, दूरस्थेनापि वह्निना दूरस्थ For Private & Personal Use Only सटीकः । स्तबकः । 11 8 11 ।। १३९ ।। www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy