SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ 'तस्यैव तदनन्तरभवनस्वभावत्वे युक्त्यभावादाकस्मिकत्वेन कार्यानुत्पत्तिदूषणं स्त्रोक्तमेव संमतिग्रन्थे प्राग योजितम् , अथचातिप्रसङ्गं सामान्यशब्देन स्वोक्तमेव तत्र योजयितुमाह' इति केचित् । वस्तुतो घटकुर्वदूपत्वेन मृत्पिण्ड-दण्डादिक्षणानामेव घटहेतुत्वम् , पटकुर्वद्रूपत्वेन च तन्तु-वेमादिक्षणानामेव पटहेतुत्वम् , इत्यादिरीत्या नातिप्रसङ्ग इत्यत्राच्याहतदनन्तरभावित्वमात्रतस्तद्व्यवस्थितौ । विश्वस्य विश्वकार्यत्वं स्यात्तद्भावाविशेषतः॥५६॥। तदनन्तरभावित्वमात्रत:- अधिकृतकारणानन्तर्यमात्रात, तद्वयवस्थितौ- कार्यकारणभावसिद्धावभ्युपगम्यमानायां, विश्वस्य- सकलकार्यस्य, विश्वकार्यत्वं- सकलकारणजन्यत्वं स्यात् । कुतः ? इत्याह- तद्भावाविशेषतः- तदनन्तरभावित्वाFO विशेषात् । न ह्यनन्तरभाविघटापेक्षयेव तादृशपटापेक्षयापि न मृत्पिण्डादिक्षणानां कुर्वद्रूपत्वं, येन कार्यविशेषः स्यात् । कार्यवि शेषदर्शनात् तद्विशेषः कल्प्यत इति चेत् । न, व्यावृत्तिरूपस्य विशेषस्य निषेत्स्यमानत्वात् । विधिरूपत्वेऽप्यकुरकुर्वदूपत्वादेः शालित्वादिना सांकर्यात् , जातिरूपस्य तस्यासंभवात् , अनभ्युपगमाचेत्याशयः ।। ५६ ॥ ___ इदमेव स्पष्टयति । 'विशेषकारणं विक्षिपति' इत्यपरे । अभिन्नदेशतादीनामसिद्धत्वादनन्वयात्। सर्वेषामविशिष्टत्वान्न तन्नियमहेतुता ॥५७॥ अभिन्नदेशतादीनां- कारणदेशैकदेशत्वादीनाम् , आदिनाऽभिन्नजातित्वादिग्रहः, असिद्धत्वात् , क्षाणिकत्वेन देशादिभेदोपपत्तेः, तथा, अपरिणामित्वेनानन्वयात् , सर्वेषाम्- अनन्तरभाविना कार्याणाम् , सर्वाणि पूर्वभावीनि कारणानि Jain Education Inte nal For Private & Personel Use Only Garlww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy