SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः ॥१३८॥ सटीकः। स्तबका। ॥४॥ भावित्वेन वैश्वरूप्याभावप्रसङ्गाच्चैव । खोक्तऽर्थे पूर्वाचार्यसंमतिमुपदर्शयति-तथाच- उक्तसदृशं च, महामतिः- महामतिनामा ग्रन्थकृत् , आह-॥५३॥ तथाहि'सर्वथैव तथाभाविवस्तुभावाहतेन यत्। कारणानन्तरं कार्यद्राग्नमस्तस्ततोन तत्' ॥५४॥ सर्वथैव-कारणत्वादिपर्यायवत् तद्रव्यतयापि, तथाभाविवस्तुभावाढते- कार्यकाले फलपरिणामिवस्तुसत्तां विना, कारणानन्तरं- प्रतिनियतहेत्वव्यवहितोत्तरसमये, कार्य- प्रतिनियतकार्यम् , द्राग्-झटित्येव, नभस्त:-आकाशात्- अकस्मादित्यर्थः, यतो हेतोर्न संभवेत् , ततस्तत् कार्य न भवेदेवेत्थंवादिन इति भावः ॥ ५४॥ एतदेव समर्थयन्नाहतस्यैव तत्स्वभावत्वकल्पनासंपदप्यलम्।न युक्ता युक्तिवैकल्यराहुणा जन्मपीडनात् ॥५५॥ तस्यैव- विवक्षितकार्यस्यैव, तत्स्वभात्वकल्पनासंपदपि- स्वभावत एव कारणानियम्यनियतजातीयत्वकल्पनर्द्धिरपि, | न युक्ता । कुतः ? इत्याह-युक्तिवैकल्यराहुणा- प्रमाणाभावरूपसैहिकेयेण, जन्मपीडनात्- उत्पादस्यैव दृषणात् , हेतुं विनैव तादृशस्वभावककार्योत्पादाभ्युपगमे तं विनवार्थक्रियाया अपि स्वभावत एवोपपत्तौ तदुत्पादकल्पनाया अप्ययुक्तत्वादिति भावः, 'क्रूरग्रहेण जन्मनि पीडिते च न भवति विभूतिः' इति ग्रहवित्तन्त्रव्यवस्था ॥ ५५ ॥ ॥१३८॥ FEM Jain Education national For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy