SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Jain Education International धर्म- कारणादिः, न कल्पितः, तस्याध्यक्षावसितत्वात् । धर्म-धर्मिभावस्तु कल्पितः परापेक्षग्रहत्वेन सविकल्पकैकवेधत्वात् । तत्र पूर्वो वस्तुक्षणो निरंशः- धर्मान्तराघटितः हेतुः उत्तरच तादृशो वस्तुक्षणः फलमुच्यते । तत्र काल्पनिक कारणत्वं कार्यत्वं च मा भूत्, वास्तवं तु धर्मिस्वरूपमन्याघटितं भवत्येव, इति को दोषः १ इति भावः ॥ ५१ ॥ अयोत्तरमाह पूर्वस्यैव तथाभावाभावे हन्तोत्तरं कुतः ? । तस्यैव तु तथाभावेऽसतः सत्त्वमदो न सत् ॥ ५२॥ पूर्वस्यैव भावक्षणस्य, तथाभावाभावे - फलरूपेण परिणमनाभावे, 'हन्त' इति खेदे, उत्तरं फलं, कुतः १ । तस्यैव तु कारणक्षणस्य, तथाभावे- फलरूपेण परिणमनेऽभ्युपगम्यमाने, असतः कार्यस्य सत्वम् उत्पत्तिः, अद- एतद् 'वचनम्, न सत्-न समीचीनम्, व्याहतत्वादित्यर्थः ॥ ५२ ॥ एतेनान्यदपि तदुक्तमयुक्तमित्याह - तं प्रतीत्य तदुत्पाद इति तुच्छमिदं वचः । अतिप्रसङ्गतश्चैव तथा चाह महामतिः ॥ ५३ ॥ 'तं प्रतीत्य-कारणक्षणमाश्रित्य तदुत्पाद:- कार्योत्पादः' इतीदं वचस्तुच्छं- निष्प्रयोजनम् ; यतः कारणाश्रयणं यदि पाश्रयणं, तदोक्तदोषात् यदि च तदानन्तर्यभावमात्रनिवन्धन स्वभावाश्रयणं, तदातिप्रसङ्गतश्चैव विश्वस्यापि तदनन्तर For Private & Personal Use Only jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy