________________
अनन्तरं च- कारणाव्यवहितोत्तरसमये च, तद्भावः कार्योत्पादोऽभ्युपगम्यमानः, तत्वादेव-अनन्तरत्वादेव, निरर्थकः, दण्डादीनां दण्डत्वादिना घटादिव्याप्यत्वाभावात् , सामग्रीप्रविष्टदण्डत्वादिना तथात्वे गौरवात् । कुर्वद्रूपत्वेन तथात्वे हि क्षणिकत्वसाधनाशा, सा च न पूर्यते, अव्यवहितोत्तरसमयवृत्तित्वसंबन्धेन व्याप्यत्वे गौरवात् , आनन्तर्यमात्रस्य
च कारणकारणसाधारणत्वात् क्षणिकत्वानियामकत्वात् , कुर्वद्रूपकल्पनापेक्षया कथचिद्भिन्नाभिन्नसामग्यनुप्रवेशरूपकुर्वद्रूपत्वेन He दण्डादेस्तदैव घटादिव्याप्यत्वौचित्याचेत्याशयः । तथा, समं च- एककालं च, हेतु-फलयोः कार्य-कारणयोः, नाशो-त्पादावसङ्गतौ- अघटमानौ ॥४७॥
तथाहिस्तस्तौ भिन्नावभिन्नौ वा ताभ्यां भेदे तयोः कुतः। नाशो-त्पादावभेदे तु तयोर्वे तुल्यकालता४८
तौ- नाशो-त्पादौ, ताभ्यां- हेतु-फलाभ्यां, भिन्नौ, अभिन्नौ वा स्त इति पक्षद्वयम् । तत्र भेदेऽभ्युपगम्यमाने, तयोःहेतु-फलयोः, नाशो-स्पादौ कुतः, संबन्धाभावात् , नाशस्य निर्हेतुकत्वाभ्युपगमेनोत्पादस्य चोत्पद्यमानाजन्यत्वेन तदुत्पत्ति| संबन्धस्याप्यभावात् । अभेदे त्वभ्युपगम्यमाने, तयोः- कार्य-कारणयोः, वै-निश्चितम् , तुल्यकालता, हेतुनाश-फलोत्पादFor योरभिन्नकालत्वात् ॥ ४८॥
ततः किम् ? इत्याह
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org