________________
समुच्चयः।
||
४
॥
शास्त्रवार्ता- साधकत्वे तु सर्वस्य ततो भावः प्रसज्यते । कारणाश्रयणेऽप्येवं न तत्सत्त्वं तदन्यवत् ॥४५॥ सटीकः ।
___ साधकत्वे तु तस्य निरवधिक एवाभ्युपगम्यमाने, सर्वस्य- कार्यजातस्य, ततः- कारणात् , भावः- उत्पादः, स्तबकः । ॥१३६॥
प्रसज्यते, तस्यासत्साधकत्वेनाविशेषात् । उपसंहरन्नाह- एवम्- उक्तेन न्यायेन, कारणाश्रयणेऽपि-कार्यविशेषार्थ कारणविशेषानुसरणेऽपि, न तत्- प्रतिनियतकार्यसत्त्वम् , तदन्यवत्- ततोऽन्यत्रेव योग्यताभावाविशेषात् , नानाकार्यजननीनां तत्तद्धेतुव्यक्तीनां तद्यक्तिजनकत्वमेव स्वभाव इत्यस्य वक्तुमशक्यत्वात् , तत्स्वभावानुपविष्टत्वेन तद्वदेव सत्त्वप्रसङ्गाच्चेति ॥४५॥
दोषान्तरमाहकिञ्च तत्कारणं कार्यभूतिकाले न विद्यते। ततो न जनकं तस्य तदाऽसत्त्वात् परं यथा॥४६॥
किच, तत- पराभिप्रेतं, कारणं; कार्यभूतिकाले- कार्योत्पादसमये, न विद्यते, क्षणिकत्वात् , यत एवं, ततो न जनकं तस्य-कार्यस्य । कुतः? इत्याह- तदाऽसत्वात्- कार्यभूतिसमयेऽसत्वात् । किंवत् ? इत्याह-परं यथा- कारणकारणवदित्यर्थः॥४६॥
आशङ्काशेष परिहरतिअनन्तरं च तद्भावस्तत्त्वादेव निरर्थकः। समं च हेतु-फलयो शो-त्पादावसंगतौ ॥४७॥
॥१३६॥
Jain Education Interna
For Private & Personel Use Only
www.jainelibrary.org