SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ न प्रयोजनमस्ति, अतदायत्तत्वाद् वस्तुसिद्धेः, शृङ्गग्राहिकया तद्ग्रहस्य चामयोजकत्वादिति भावः॥४३॥ अत्रोत्तरम् नाम्ना विनापि तत्त्वेन विशिष्टावधिना विना । चिन्त्यतां यदि सन्न्यायाद् वस्तुस्थित्यापि तत्तथा ॥४४॥ नाना विनापि-शृङ्गग्राहिकया तद्ग्रहं विनापि, तत्त्वेन- आथ्र्यैव प्रतीत्या, विशिष्टावधिना विना-स्वसंबन्धिनं भाविनं विशिष्टमवधिमन्तरेण, चिन्त्यताम्- माध्यस्थ्यमवलम्ब्य विमृश्यताम् , यदि भवति सन्न्यायात्- सूक्ष्मन्यायेन, वस्तुस्थित्यापि- उक्तलक्षणया, तत्- कारणम् , तथा- असतः कार्यस्य सत्त्वसाधकम् ; नैव तथास्ति, अत्यन्तासच्चे तत्संबन्धस्यैवानुपपत्तेः, अतीतघटस्यापि तज्ज्ञानज्ञेयत्वपर्यायेण सत्वादेव तज्ज्ञानसंबन्धित्वात् , दण्डादौ घटकारणताया अपि तत्पर्यायद्वारा घटसत्त्वं विना दुर्घटत्वात् । ननु ज्ञाने घटादेानस्वरूपा विषयतैव संबन्धः, दण्डे च दण्डस्वरूपा कारणतैव तथा, घटनिरूपित्वेन तद्व्यवहारे च घटज्ञानस्य हेतुत्वाद् न दोष इति चेत् । न, उभयनिरूप्यस्य संबन्धस्योभयत्रैवान्योन्यव्याप्तत्वात अन्यथेतरानिर्भासविलक्षणनिर्भासानुपपत्तेः, विषयविशेष विना ज्ञानाकारविशेषोपगमे साकारवादप्रसङ्गादिति । अन्यत्र विस्तरः॥४४॥ यदि चैवमपि साधकत्वमिष्यते, तदाऽतिप्रसङ्ग इत्याह सरकारASTRI Jain Education Inter For Private & Personel Use Only Haliw.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy