________________
शास्त्रवार्तासमुच्चयः। ॥१३५॥
अत्राह-न वै- नैतदेवम् , सर्वथाऽसति तस्मिन् , 'तत्सत्त्वसाधकं तत्' इत्यत्र 'तस्य' इत्यर्थायोगात् , सर्वथाऽसति शश- सटीकः। शृङ्गादाविव षष्ठया अप्रयोगात् ।। ४२ ॥
स्तवकः।
॥४॥ अथ सत्त्वं न तावत् सत्तासंबन्धः, व्यक्तिव्यतिरेकेण विशददर्शने तदनवभासात् , दृश्यादृष्टौ चाभावसिद्धेः । न च | 'सत् सत्' इति कल्पनाबुद्ध्या तदध्यवसायः, तत्रापि बहिष्परिस्फुटव्यक्तिस्वरूपान्तर्नामोल्लेखाध्यवसायव्यतिरेकेण सत्ताखरूपाप्रकाशनात् , सत्ताया अपि सत्तान्तरयोगेनासत्वेऽनवस्थानाच । नापि स्वरूपतः सत्त्वम् , स्वप्नावस्थावगतेऽपि पदार्थात्मनि स्वरूपसद्भावात् सत्चप्रसक्तेः, परिस्फुटसंवेदनावभासनिर्ग्राह्यत्वात् स्वरूपस्य संनिहितत्वेनैव तदनुभवात् , असंनिहिततत्कल्पनायां मानाभावात् 'असदिदमनुभूतम्' इति स्वमोत्तरप्रतीतेः, किन्त्वर्थक्रियाकारित्वमेव तत् । तथाच विद्यमानाया अपि व्यक्तेः स्वरूपतः सवाद् न 'तस्य' इत्यनुपपत्तिः । न हि तदा तत्सत्व एव तत्संबन्धव्यवहारः, अतीतघटज्ञानेऽतीतघटसंबन्धित्वेन व्यवहारस्य सर्वसिद्धत्वात् । न च शृङ्गग्राहिकया तत्कार्यव्यक्तिहेतुत्वाग्रहादनुपपत्तिः, घटार्थिप्रवृत्ती घटजातीयहेतुताज्ञानस्यैव प्रयोजकत्वात् , विशिष्य हेतुतया च प्रतिनियतवस्तुव्यवस्थितेरेवोपपादनात् , इत्याशयवान् परः प्राहवस्तुस्थित्या तथा तद्यत्तदनन्तरभावि यत्।नान्यत्ततश्च नाम्नेह न तथास्ति प्रयोजनम् ४३ 2 वस्तुस्थित्या- आर्थ न्यायमाश्रित्यः तथा, तत-कार्यसत्त्वसाधकम् , तत्- कारणम् । कुतः ? इत्याह- यद्- यस्मात् ,
॥१३५॥ तदनन्तरभावि-प्रकृतकारणानन्तरभावि, तत् । प्रतिनियतमेव कार्यसत्त्वम् , नान्यद्- नान्यादृशम् । ततश्चेह विचारे, नाम्ना
Jain Education
anal
For Private & Personal Use Only
201 www.jainelibrary.org