________________
तद्धि-तदेव वस्तु, असदुत्पद्यते यस्य कारणं विद्यते । तच्च- कारणं, विशिष्टशक्तिमत्- प्रतिनियतरूपानुविद्धकार्यजननशक्तियुक्तम् , ततो हेतोः, तत्सत्त्वसंस्थितिः- तद्वयक्तेः प्रतिनियतसत्वव्यवस्था ॥ ४०॥
अत्रोत्तरम्अत्यन्तासति सर्वस्मिन्कारणस्य न युक्तितः। विशिष्टशक्तिमत्त्वं हि कल्प्यमानं विराजते॥४१॥
अत्यन्तासति- सर्वथाऽविद्यमाने कार्यनाते, कारणस्य युक्तितः-न्यायेन, विशिष्टशक्तिमत्त्वं- प्रतिनियतजननस्वभावत्वम् , कल्प्यमानं न विराजते, सर्वथाऽवध्यभावात् , अविद्यमानव्यक्तीनामवधित्वेऽतिप्रसङ्गात् , कथञ्चिद्विद्यमानत्वेनैवावधित्वे नियमोपपत्तेः॥४१॥
पर आहतत्सत्त्वसाधकं तन्नतदेव हि तदान यत्। अत एवेदमित्थं तु न वै तस्येत्ययोगतः॥४२॥
तत्सत्त्वसाधकं- तद्वयक्त्युत्पादकम् , तत्- कारणम् , तत्त्वमेव विशिष्टशक्तिमत्त्वम् , तत्कारणव्यक्तित्वेन पूर्वावधित्वस्य, तत्कार्यव्यक्तित्वेन चोत्तरावधित्वस्य संभवात् । न चैवं गौरवम् , वस्तुतोऽर्थस्य तथात्वादिति । अत्रोत्तरम्-न-नैतदेवम् , तदेव-विवक्षितकार्यसत्वम् , तदा- कारणकाले, न यद्- यस्मात् , असरवाद् न तत्र हेतुव्यापार इत्याशयः । पर आहयत एवं कार्य प्रागसत्, अत एवेद-कारणस्य तत्सत्वसाधकत्वम् , इत्थं तु-घटमानं तु, सत आकाशादेरिव साधकत्वानुपपत्तेः।
Jain Educati
onal
For Private & Personel Use Only
www.jainelibrary.org