________________
शास्त्रवार्ता
समुच्चयः । ॥१३४॥
Jain Education Intel
ज्जनापत्तेः, प्रतियोगिमद्भिनाधिकरणस्यैवाभावस्वरूपत्वे लाघवाच्चेति । अन्यत्र विस्तरः । तस्माद् भावपरिणाम एवाभाव इति व्यवस्थितमेतत्- 'भावो नाभावमेति' इति ॥ ३८ ॥
अथ 'नाभावो भावतां याति' इत्येतद् व्यवस्थापयन्नाह -
1
असतः सत्त्वयोगे तु तत्तथाशक्तियोगतः । नासत्त्वं तदभावे तु न तत्सत्त्वं तदन्यवत् ॥ ३९ ॥ असतः - एकान्तासखेनाभिमतस्य सवयोगे त्वभ्युपगम्यमाने, तस्य-असत्त्वेनाभिमतस्य, तथा - नियतरूपानुविद्धभविष्यत्तया शक्तियोगतः- शक्तिसंबन्धात्, नासच्चं नात्यन्तासच्वम्, तादृशस्य शशशृङ्गवच्छक्त्ययोगात् । मा भूत् तादृशशक्तियोग इत्यत्राह - तदभावे तु तथाशक्त्यभावे त्वभ्युपगम्यमाने तदन्यवत्- अधिकृतव्यक्तिभिन्नवत् न प्रतिनियतार्थक्रियाकारित्वरूपं सत्वम्, नियामकाभावात् ॥ ३९ ॥
अथ प्रतिनियतार्थक्रियाकारित्वं तद्व्यक्तिस्वरूपमेव तद्वयतेरुत्पत्तिश्व तज्जननशक्तिमतो हेतुविशेषादेवः न ह्येवं सत्कार्यापत्तिः, हेतुस्वरूपायाः शक्तेः प्राक् सखेऽपि कार्यस्वरूपायाः शक्तेरभावात्, इत्याशङ्कते - असदुत्पद्यते तद्धि विद्यते यस्य कारणम् । विशिष्टशक्तिमत्तच्च ततस्तत्सत्त्वसंस्थितिः ॥४०॥
प्रस्तुतस्य कारिका ११|
For Private & Personal Use Only
सटीकः ।
स्तवकः ।
118 11
॥१३४॥
www.jainelibrary.org