________________
तेनाभाव इति श्रुतिः क्व निहिता किंवात्र तत्कारणं स्वाधीना कलशस्य केवलमियं दृष्टा कपालावली ॥१॥" इति । अथ कालविशेषविशिष्टाधिकरणेनेवाभावान्यथासिद्धाववयव्यादेरप्यसिद्धिप्रसङ्ग इति चेत् । न, कालविशेषस्य द्रव्यपर्यायोभयरूपत्वेन तस्यैवाभावावयव्यादिरूपत्वस्येष्टत्वात् , शबलवस्त्वभ्युपगमे दोषाभावादिति दिक् ।
प्राभाकरास्तु - 'घटवद्भूतलबुद्धिभिन्ना भूतलबुद्धिघटाभावः । न च घटवति घटाज्ञानदशायां तदभावापत्तिः, अन्याभावानभ्युपगमात् , तद्व्यवहारस्य च प्रतियोग्यधिकरणज्ञाने यावत्प्रतियोग्युपलम्भकसचे चेष्टत्वात् । न च बाधावतारदशायां तदापत्तिः, प्रतियोगिमत्त्वज्ञानस्यैव बाधकत्वेन तदानीमभावव्यवहारकाभावात् । न च बाधितव्यवहारस्य संवादा. पत्तिः, बाधितत्वेनैवासंवादात् । न च प्रतियोगिमत्तानवगाह्यधिकरणबुद्धि प्रतियोगिमत्तावगायधिकरणबुद्धयोर्विषयतावृत्ती कि केन बाध्यताम् , प्रमात्वस्यापि साधारण्यात् ? इति वाच्यम् , अभावव्यवहारभ्रम-प्रमात्वानुरोधेन प्रतियोगिमत्तानवगाह्यधिकरणबुद्धरधिकरणे विषयतया सत्त्वेऽपि घटायभावत्वेन तत्रासत्वात् , यथा परेषां घटध्वंसस्य घटात्यन्ताभावत्वेन स्वात्मनि सत्वेऽपि घटध्वंसत्वेन तत्रासत्त्वम् , “घटध्वंसे घटो ध्वस्तः' इति प्रत्ययात् । यद्वा, वस्तुगत्या यः प्रतियोगिमान् तज्ज्ञानभिन्नमधिकरणज्ञानमेव तदभावः, आकाशाद्यभावस्त्वधिकरणसामान्यज्ञानमेव । न चैवमननुगमः, वृत्तिमद-वृत्तिमदभावयोर्लक्ष्ययोर्भेदेन लक्षणभेदात् । अथवा, आरोग्यसंबन्धसामान्ये यदधिकरणानुयोगिकत्व-यत्पतियोगिकत्वोभयाभावस्तदधिकरणज्ञानत्वमेव तत्संबन्धावच्छिन्नतत्मतियोगिताकाभावत्वम्' इत्याहुः।
तचिन्त्यम् , अमावस्याधिकरणबुद्धिरूपत्वे मुक्ष्मस्य केशादेर्जिज्ञासानुपपत्तेः, घटनाशस्य बुद्धिरूपत्वे च तन्नाशे तदुन्म
Jain Education Inter
For Private & Personel Use Only
Celhjainelibrary.org