________________
शाखवा समुच्चयः ॥१३३॥
सटीकः । स्तबकः। ॥४॥
प्रामाण्यस्य बाधज्ञानाद्युत्तेजकाप्रामाण्यज्ञानादौ निवेशे महागौरवात् । न च तदा भूतले घटाभावसंबन्धसत्त्वेऽपि तत्संबन्धा- वच्छिन्नाधारताभावात् तदभावतद्विशेष्यकत्वावच्छिन्नतत्मकारताकत्वलक्षणमप्रामाण्यमक्षतमिति वाच्यम् , धर्म-धर्मिस्वरूपापरावृत्तावाधारताया अप्यपरावृत्तेः, तादृशाधारताधभावकल्पनापेक्षया तदभावविगमकल्पनस्यैव न्याय्यत्वात् । | अथाभावस्याधिकरणानतिरेके मृद्रव्यस्यैव घटप्रागभावत्वात् तदनिवृत्तौ घटानुत्पत्तिप्रसङ्गः, कपालादेरेव घटनाशत्वेन तन्नाशे प्रतियोग्युन्मजनप्रसङ्ग इति चेत् । न, प्रागभाव-अध्वंसयोर्द्रव्य-पर्यायोभयरूपत्वेनानुपपत्त्यभावात् । तथाहि- व्यवहारनयादेशाद् घटपूर्ववृत्तित्वविशिष्टं स्वद्रव्यमेव घटप्रागभावः, घटोत्तरकालवृत्तित्वविशिष्टं च स्वद्रव्यमेव घटध्वंसः, पूर्वकालवृत्तिस्वादिकं च परिचायकम् , न तु विशेषणम् , आत्माश्रयात् , विशिष्टस्यातिरिक्तत्वेनानतिप्रसङ्गाच्च । ऋजुमूत्रनयादेशाच्च पतियोगिमाच्यक्षण एवं प्रागभावः, उपादेयक्षण एव चोपादानध्वंसः । न च तत्पूर्वो-त्तरक्षणयोर्घटोन्मजनप्रसङ्गः, तत्संतानोपमर्दनस्यैव तदुन्मज्जननियामकत्वादिति व्यक्तं स्याद्वादरत्नाकरे ।
अथ मुद्गरपाताद् विनष्टो घट इति प्रतीत्याऽतिरिक्तनाशानुभवः, न हि भूतलं तद्बुद्धिर्वा तजन्या, तेन विनापि तयोः सत्त्वादिति चेत् । न, मुद्गरपातेन कपालकदम्बकोत्पादरूपस्यैव विभागजातस्य घटध्वंसस्य स्वीकारात् , तद्ध्वंसोत्तरं संयोगविशेषेण कपालोत्पत्तिस्वीकारस्य कल्पनामात्रत्वात् , मुद्गरपातजन्यविलक्षणपरिणामवान् घट इति प्रकृतवाक्यार्थत्वात् । एतेनेदं व्याख्यातम्
"दृष्टस्तावदयं घटोत्र नियतं दृष्टस्तथा मुद्गरो दृष्टा कर्परसंहतिः परमतोऽभावो न दृष्टोऽपरः ।
॥१३३॥
Jan Education intona
For Private Personal use only