________________
मान्येन तदभावधीसंभवात् ।
अपिच, एतादृशानन्तप्रतियोगिज्ञानानामिन्द्रिय-संबन्ध-विशेषणता-रूया-5sलोकादीनां पृथगनन्तहेतु हेतुमद्भावकल्पनापेक्षया लाघवादधिकरणस्यैव घटाभाववत्त्वेन ग्रहे क्लुप्तविशिष्टवैशिष्ट्यबोधस्थलीयमर्यादया निर्वाहः किं न कल्प्यते ?; अधिकरणस्वरूपाभावमात्रबहे इष्टापत्तेः, अभावत्वस्य च सपतियोगिकत्वेन प्रतियोगिग्रहं विनाऽग्रहात् , 'भावाभावरूपं जगत्' इत्युपदेशसहकृतेन्द्रियेण पद्मरागत्ववत् तद्ग्रहेऽपीष्टापत्तेर्वा । अधिकरणस्वरूपाभावाभ्युपगम आधाराधेयभावानुपपत्तिरिति चेत् । न, धर्मिताख्यस्याभेदस्याधारतानियामकत्वात् । कीदृशमधिकरणं घटाभावः' इति चेत् । यादृशं तेव घटाभावाश्रयः । मेम भूतले घटानयनदशायां घटाभावसंबन्धापगमाद् 'घटो नास्ति' इति न व्यवहारः, तैव तु तादृशस्यैव भूतलस्वरूपस्य सत्वात् | तत्प्रामाण्यापत्तिरिति चेत् । न, तदा घटसंयोगपर्यायेण घटाभावपर्यायविगमात् 'इदानी' घटाभावो जातः' इति सार्वजनीनानुभवात् । न चैवं भूतलादतिरेकः, पर्यायादेशादतिरेकेपि द्रव्यादेशादनतिरेकात् , पर्यायद्वारा द्रव्यविगमस्यैक्यप्रत्यभिज्ञानाप्रतिपन्धित्वात् , 'श्याम उत्पन्नः, रक्तो विनष्टः' इति वैधय॑ज्ञानकालेऽपि स एवायं घटः' इति प्रत्यभिज्ञायाः सर्वसिद्धत्वात् । एतेन ‘एवं दुःखध्वंसरूपमोक्षस्यात्मानतिरेकेणासाध्यत्वादपुरुषार्थत्वं स्यात्' इत्यादि बाधकं निरस्तम् , आत्मनोऽपि पर्यायतया साध्यत्वात् । परस्य तु घटानयनदशायां भूतले घटाभावव्यवहारमामाण्यापत्तिः, भूतलस्वरूपस्य संबन्धस्य सत्वात् , तदभावभ्रमदर्शनेन तस्य तदा न संबन्धत्वमित्यस्य वक्तुमशक्यत्वात, उक्तोपलक्षणोपलक्षितखरूपानवच्छिन्नसांसर्गिकविषयता
, क. स. ग. घ. 'बद्धवि'। २ नैयायिकस्य । ३ जैनस्य ।
Jain Education in
For Private Personal Use Only
www.jainelibrary.org