SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ सटीकः । स्तबकः। शास्त्रवार्ता- ऽभावस्य प्रत्यक्षस्याभावत्वांशे निर्विकल्पकस्य स्वीकारे विशेष्यतानवच्छिन्ननिर्विकल्पकीयविषयतया वा प्रत्यक्षेऽभावत्वभेदस्य समुच्चयः। कारणत्वात् तन्निर्विकल्पकं वार्यते, तदा घटत्वादेरपि निर्विकल्पकाप्रसङ्गात् , भावावृत्तितयोक्तविषयतया विशेषणे चाप्र॥१३२॥ सिद्धेः । अस्तु तर्हि अभावाभावोऽप्यतिरिक्त एव, तृतीयाभावादेः प्रथमाभावादिरूपत्वेनानवस्थापरिहारादिति चेत् । ती नन्ताभावानां तत्राभावत्वस्य कल्पनामपेक्ष्य क्लुप्ताधिकरणेष्वेव वरमेकोऽभावत्वपरिणामोऽनुभूयमानः श्रद्धीयताम् । 'न ह्ययमभावः' इति स्वातन्येण कस्याप्यनुभवोऽस्ति, किन्त्वधिकरणस्वरूपमेव तत्तदारोप-तत्तत्पतियोगिग्रहादिमहिम्ना तत्तदभावत्वेनानुभूयत इति । अथ तदभावलौकिकप्रत्यक्षे तज्ज्ञानस्य हेतुत्वाद् न स्वातन्त्र्येणाभावमानम्, अन्यप्रतियोगिकत्वेनान्याभावभानं तु नेष्यते; 'प्रमेयत्वं नास्ति, प्रमेयो न' इत्यादौ संयोगाद्यवच्छिन्नप्रमेयत्वाभावः, स्वरूपसंबन्धावच्छिन्नप्रतियोगिताकत्वेन तत्तत्पमेयभेद एव च प्रमेयत्वावच्छिन्नप्रतियोगिताकत्वेन भासते। न च तथापि तद्धटाज्ञानेऽपि घटान्तरज्ञानाद् घटाभावप्रत्यक्षे समनियताभावस्यैक्ये एकत्रमार्वच्छिन्नाज्ञानेऽन्यधर्मावच्छिन्नज्ञानेऽपि तदवच्छिन्नाभावप्रत्यक्षे व्यभिचार, तदभावप्रत्यक्षे तदभावज्ञानत्वेन हेतुत्वादिति न दोष इति चेत् । न, द्रव्यत्वादिना तदभावाभावज्ञानेऽपि तदभावाप्रत्यक्षात् । तदभावपतियोo गितावच्छेदकमकारकज्ञानत्वेन हेतुत्वे तु कम्बुग्रीवादिमत्त्वस्य गुरुधर्मतया प्रतियोगितानवच्छेदकत्वेन 'कम्युग्रीवादिमान् न' KA इति प्रत्यक्षानापत्तेः, तमःप्रत्यक्षे व्यभिचारात् , अभावे प्रतियोगितया घटादिवाधानन्तरं 'न' इत्याकारकप्रत्यक्षापत्तेश्च । बदरादौ कुण्डसंयोगादिधीकाले कुण्डाद्यभावधीवदभावे प्रतियोगितासंबन्धावच्छिन्नप्रतियोगितया घटवैशिष्ट्यधीकालेऽपि प्रतियोगितासा TH ॥१३२॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy