SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter वश्वस्य स्वरूपपरिचायकत्वात् । एवं च तादृशस्वरूपाभावे यत्राभावधीस्तत्र भ्रमत्वम् इति किमनुपपन्नम् ? । वस्तुतः स्वसंबन्धप्रकारावच्छेदेन यत्र ज्ञाने धर्मिसंबन्धः, स्वसंबद्धधर्म्यवच्छेदेन वा प्रकारसंबन्धः, तत्र प्रमात्वम्, अन्यत्र भ्रमत्वम् । अत एव विशिष्टज्ञाने प्रकार- धर्मिणोः संयोगादिवदज्ञानस्यापि परस्परसंवन्धतया भासमानत्वात् 'इदं रजतम्' इति भ्रमे रजतत्वस्य शुक्ती वैज्ञानिकसंबन्धेन प्रमात्वम्, संयोगेन च भ्रमत्वमिति दिक् । अत्र ब्रूमः - नैयायिकाऽस्मिन् नयवाददीपे पतन् पतङ्गस्य दशां नु मा गाः । बौद्धस्य बुद्धिव्ययजं कुकीर्तिविसृत्वरं कज्जलमस्य पश्य ॥ १ ॥ तथाहि अभावस्य लाघवात् क्लृप्ताधिकरणस्वभावत्वे सिद्धे तत्र सप्रतियोगिकत्वं कल्प्यमानं तवाभाववृस्यभावेऽन्यप्रतियोगित्वमिव तत्काले तबुद्धिजनितव्यवहारविषयत्वादिरूपं न बाधकम् । न चाधिकरणस्वरूपत्वेऽननुगमो बाधकः, तथा सत्यभावाभावस्यापि प्रतियोग्यात्मकत्वविलयेऽपसिद्धान्तात् । तत्र तदभावाभावत्वमेकमेवेति चेत् । किं तत् १ । घटत्वादिकमिति चेत् । कथमस्य तत्रम् । तेन रूपेण घटादिमत्ताप्रतीतौ घटाद्यभावाभावव्यवहारादिति चेत् । कथं तर्हि तदसाधारणधर्मान्तराणामपि न तथात्वम् । किञ्च, एवं घटत्वादिज्ञानं प्रतियोगिज्ञानं विना न स्यात्, अभावत्वप्रत्यक्षे योग्यधर्मावच्छिन्नज्ञानत्वेन हेतुत्वात्, अन्यथा तन्निर्विकल्पकप्रसङ्गात् । यदि च निर्विकल्पकीयविषयतया घटत्वादिना - १ नैयायिकस्य । २ ज. 'वप्र' । For Private & Personal Use Only w.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy