________________
C
शास्त्रवार्ता
सटीकः। स्तबकः। ॥ ४ ॥
फलमुखगौरववददोषत्वात । न चाभावग्रहसामग्यैव तदुपपत्तेः किमन्तर्गडुनाऽभावनेति वाच्यम् , 'नास्ति' इति धीविषयस्य समुच्चयः।
तस्यान्तर्गडुत्वायोगात् । ॥१३१॥
किच, अभावप्रत्यक्षस्य विशिष्टावैशिष्ट्यप्रत्यक्षरूपत्वेन मम विशेषणतावच्छेदकप्रकारकनिश्चयमुद्रयैव प्रतियोगितावच्छे- दकावच्छिन्नप्रतियोगिज्ञानस्य हेतुत्वं, न तु स्वातन्त्र्येण तवं तु तम्यवहारे तस्य स्वातन्त्र्येण हेतुत्वं कल्पनीयमिति गौरवम् । Ko किश्च, अधिकरणानामननुगतत्वात् कथमनुगतव्यवहारः । मम तु समवाय-स्वाश्रयसमवायान्यतरसंबन्धेन सत्तात्यन्ताभाव
एवानुगतमभावत्वम् , तच्च स्ववृत्यपि, इति न किश्चिदनुपपन्नम् । न चातिरिक्ताभावस्याधिकरणेन समं संबन्धानुपपत्तिः, संबन्धान्तरमन्तरेण विशिष्टप्रतीतिजननयोग्यत्वस्यैव तत्संबन्धत्वात् । नन्वेवं घटाभावभ्रमानुपपत्तिः, योग्यतायाः फलैकगम्यतया तत्रापि सत्त्वात् । न च प्रमायोग्यता संबन्धः, संबन्धसत्त्वे तस्यापि प्रमात्वात् , अन्यथाऽन्योन्याश्रयात् , योग्यतायाः प्रत्ययाविषयत्वेन विभागाभावाच्च । अथ योग्यतालिङ्गितं स्वरूपमेव संबन्धः, भ्रम-प्रमयोश्च वस्तुगत्या घट-तदभाव-तयक्त्यवगाहित्वेनैव विभाग इति चेत् । न, अतीन्द्रियाभावस्वरूपसंबन्धेऽव्याप्तः । तस्य विशिष्टज्ञानाभावादिति चेत् । न, योग्यतावच्छेदकावच्छिन्नस्वरूपदयस्यैव संबन्धत्वात् , योग्यतावच्छेदकं च कचित् प्रतियोगिदेशान्यदेशत्वम् , कचित् प्रतियोगिदेशवे सति प्रतियोगिकालान्यकालत्वम् , क्वचिन् प्रतियोगितावच्छेदकाभाववत्त्वम् । न चात्रापि मत्वर्थसंबन्धानुयोगः, तत्रापि ताशयोग्यतावच्छेदकानुसरणात् । न चैवमनवस्था, वस्तुनस्तथात्वात् । प्रत्ययानवस्था तु नास्त्येव, उक्तावच्छेदक
1 नैयायिकस्य । २ जैनस्य ।
ORPIRECTORIEDAARABohalisa
|१३१॥
Jain Education EOSH
For Private Personel Use Only
www.jainelibrary.org