________________
यतश्चैवम्- उक्तेन प्रकारेण, सतोऽसत्त्वम्, सर्वथा- सर्वैः प्रकारैर्विचार्यमाणं, नोपपद्यते, भावोन्मजनप्रसङ्गात् । ततश्वेह यदुक्तं प्राक्- 'भावो नाभावमेति' इति, एतद् व्यवस्थितम्- उपपन्नम् , भावविच्छेदेनाभावानुत्पत्तेः, तदविच्छेदे च | द्रव्यांशान्वयादिति ।
अत्र नैयायिकाः-नन्वेवं वराकस्य सौगतस्य तूष्णींभावेऽपि न वयमिदं मृषाभाषितं सहामहे, भावभिन्नस्यैवाभावस्य घटमानत्वात् । तथाहि- अभावो भावातिरिक्त एव, अधिकरणस्याप्रतियोगिकत्वात् , तस्य च सप्रतियोगिकतयाऽनुभूयमानत्वेन तद्रूपत्वायोगात् । अथ सप्रतियोगिकत्वं प्रतियोग्यविषयकबुद्धिविषयत्वं, तच्च तैवापि नामावस्य, इदंत्वादिनाप्यभावप्रत्यक्षात् , किन्त्वभावत्वस्य, तस्य च ममापि तथात्वमेव, घटवद्भिनत्वरूपस्य तस्य घटधीसाध्यत्वादिति चेत् । न, तद्भिन्नत्वस्यापि स्वरूपानतिरेकेणाप्रतियोगिकत्वात् , वस्तुतः प्रतियोग्यवृत्तिरनुयोगिवृत्तियों धर्मस्तज्ज्ञानस्य प्रतियोगिवृत्तित्वेन, अज्ञातधर्मग्रहस्य चाभेदग्रहहेतुत्वेन, तस्य चात्र भेदरूपस्यैव संभवेनान्योन्याश्रयाच्च । न चाभावव्यवहारार्थमेव प्रतियोगिज्ञानापेक्षा, अभावस्त्वप्रतियोगिक एवेति वाच्यम् , व्यवहर्तव्यज्ञाने सति, सत्यांचेच्छायांव्यवहारोदयेन तत्राधिकस्यानपेक्षणात् , हस्त-वितस्त्याद्यवच्छेद्यत्वेन दीर्घत्वग्रह एव सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेदकत्वेन तारत्वादिग्रह एव चावध्यपेक्षणात् । न चाभाववृत्त्यभावस्याधिकरणानतिरेकेण सर्वमिदं प्रतिबन्दिकचलितमिति वाच्यम् , अभावसिड्युत्तरमुपस्थितायास्तस्याः
, प्रस्तुतस्तबके कारिका ११ । २ नैयायिकस्य । ३ जैनस्य ।
Jain Education Inter
For Private & Personel Use Only
ROMw.jainelibrary.org