________________
SAREE
शाखवार्तासमुच्चयः ॥१३०॥
दोषान्तरमाह
सटीकः। तदेव न भवत्येतद्विरुद्धमिव लक्ष्यते । तदेव वस्तुसंस्पर्शाद् भवनप्रतिषेधतः ॥३७॥ स्तबकः । 'तदेव न भवति' एतत्- यत् परेणोक्तम् , तद् विरुद्धमिव लक्ष्यते- व्याहतमिव दृश्यते । कथम् ? इत्याह- 'तदेव'
॥४॥ इत्यनेन, वस्तुसंस्पर्शात्- अविकृतवस्तुपरामर्शात् , भवनप्रतिषेधतः- भवननिषेधात् , 'भवनमभवनम्' इत्यापत्तेः। एवं चन निषेधमुखेनैव विधिसमावेशात् तदा सत एवासचं व्यवस्थापितवान् देवानांप्रियः । तद् यदि तदाऽसत् स्यात् प्रागपि तथा स्यादिति तत्पदपरामृष्टं सांवृतमेव निषिध्यत इति चेत् । तर्हि तद्वस्तुनस्तदवस्थत्वाद् वृथैव क्षणिकताप्रसाधनप्रयासः। स्यादेतत, घटनाशस्य क्षणिकत्वेऽपि न प्रतियोग्युन्मजनापत्तिः, तन्नाशनाशादिपरम्परानधिकरणतत्मागभावानधिकरणक्षणस्यैव तदधिकरणत्वव्याप्यत्वादिति । मैवम् , लाघवेन तदभावानधिकरणत्वेनैव तदधिकरणत्वव्याप्तिकल्पनात् , सभागसन्ततौ तनाशक्षणे तज्जातीयस्वीकारेण बीजाङ्कुरवदुन्मज्जनापत्तेदुर्निवारत्वात् , तन्नाशादिपरम्पराया दुर्घहत्वेन तद्धटितक्षणिकत्वस्य दुग्रहत्वाचेति दिक् ॥ ३७॥
ततः सिद्धं 'सतोऽसत्त्वे' इत्यादि, इत्युपसंहरबाहसतोऽसत्त्वं यतश्चैवं सर्वथा नोपपद्यते । नाभावो भावमेतीह ततश्चैतब्यवस्थितम्॥३८॥
। प्रस्तुतस्तबके कारिका १२ ।
CROICE
Pate
Jain Education
actional
For Private & Personel Use Only
twww.jainalibrary.org