________________
बहिः' 'शिशिरविशिष्टे पर्वते न वह्निः' इत्यादिपतीत्या व्यासज्यवृत्तिविशिष्टधर्मावच्छिन्नाधिकरणताकाभावाभ्युपगमेन घटवत्यपि 'घट-पटौ न स्तः' इत्यस्य 'गुणे न गुण-कर्मान्यत्वविशिष्टसत्ता' इत्यस्य चोपपादनेऽपि न निर्वाह इति दिक् । वस्तुतः
श्रुतज्ञानस्थलीयक्षयोपशमपाटवात् समनियतपर्यायाणामेकतरभानेऽन्यतरभानमप्यावश्यकम् , इति सिद्धं भावाभवनभानेER भावभवनभानम् ।
ननु न भावाभवनमेवाभावभवनं, यत्र कदापि न घटस्तत्र तदभवनेऽपि तदभावभवनादिति चेत् । देवीकरवदनादय| ममृतोद्गारः, येन स्वयमेव तुच्छत्वेऽप्यनुभवेन गले गृहीतोऽत्यन्ताभावाद् नाशं विशेषयसि । तदिदमाह- यद्-यस्मादेवम् , तत्तस्मात् , तथाधर्मके ज्ञेयत्वादिस्वभावे, तस्मिन्- अभवने, हि-निश्चितम् , उक्तविकल्पः- तचा-ऽन्यत्वलक्षणः, न विरुध्यते, तुच्छतयाऽत्यन्ताभावतुल्यत्वेऽपि कादाचित्कत्वेन भावतुल्यत्वात् । अन्यथा शशविषाणादरिव नित्यमभावोपरागेणैव भानं स्यात् , तथा च 'घटासत्त्वं नास्ति' इत्युल्लेखः स्यात् । अथास्तित्वं यदि सत्ता, तदा तथोल्लेखे इष्टापत्तिरेव ; यदि च कालसंबन्धस्तत् , तदा बाधाद् न तथोल्लेख इति चेत् । तहि अवच्छिन्नकालसंबन्धात् तदेवोत्पादादिमत्त्वमायातम् , इति घट्टकुट्यां प्रभातम् । काल्पनिक एवायं नाशः, काल्पनिकमेव चास्योत्पादादिकमिति न तेन प्रसङ्ग इति चेत् । तर्हि तद्धटितं क्षणिकत्वमपि काल्पनिकमेव, इति गतं सौगतस्य सर्वस्वम् ॥ ३६॥
, दर्वीकरः सर्पः । २ क. ख. प. 'स्तव त' ।
Jain Education in
ernal
For Private Personal Use Only
www.jainelibrary.org