SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ शास्त्रवातासमुच्चयः स्तबकः। ॥४ ॥ ॥१२९॥ घटः' इत्यादौ द्विविधबोधस्यैवानुभवसिद्धत्वात , भवननिर्गते घटादौ कथञ्चिद् घटादिपृथग्भूताधेयत्वपर्यायविगमेनानुपपश्यभावात् , विशिष्टेऽस्तित्वान्वये विशेषणेऽपि तदन्वयात , अन्यथा पाकरक्ततादशायां 'श्यामो घटोऽस्ति' इतिधीप्रसङ्गात् । किच, एवं 'वृक्षे न संयोगः' इति व्यवहारो न प्रमाणं स्यात् , संयोगस्य वृक्षवृत्तित्वाभावात , संयोगाभावस्य वृक्षवृत्तित्वान्वये तु नानुपपत्तिः, अवयव्यभेदं देशत्तित्वं त्वादाय तथाविधव्यवहारप्रवृत्तेः, इति व्युत्पादितं नयरहस्ये । अपिच, 'जातौ न सत्ता' इत्यत्रापि न सुष्ठ समाधानम् , 'जाती समवायेन सत्ता, नवा ?' इत्यादिपश्नानिवृत्तेः । अथात्र सप्तम्यर्थो निरूपितत्वं समवेतत्वं च, तथाच 'जातिनिरूपितत्वाभाववत्समवेतत्ववती सत्ता' इति बोधः, अन्यथा 'जाति-घटयोर्न सत्ता' इत्यादी का गतिः, सत्ताभावस्योभयत्वपर्याप्त्यधिकरणावृत्तित्वात । उभयवाधिकरणदृत्तित्वान्वये च 'पृथिवी-तद्भिन्नयोर्न द्रव्यत्वम्' इत्यस्याप्यापत्तः। न चैवं 'संयोगेन भवने न घटः' इति स्यात् , भवनावृत्तिपाङ्गणादिसंयोगवैशिष्ट्रयस्य घटे सत्वादिति वाच्यम् : घटान्वयिसंयोगत्वावच्छेदेन भवनावृत्तित्वस्यान्वय एव तथा व्यवहारात् । प्रकारतया तथा| भानासंभवेऽपि तदवच्छिन्नसंयोगस्य संसर्गमर्यादया भानात् , तथैव साकाङ्क्षत्वात् , 'जातौ समवायेन न गगनम्' इत्यादी च नत्र उभयत्र संबन्धात् , जातिवृत्तित्वाभाववत्समवायवैशिष्टयाभाववद् गगनमित्यर्थ इत्यस्मन्मतपरिष्कार इति चेत् । न, नत्र उभयत्र संबन्धेन गच्छत्यपि चैत्रे 'न गच्छति' इति प्रयोगयोग्यतापादनस्य तात्पर्यसच्चे इष्टापत्या निराससंभवेऽपि O 'जातौ समवायेन न गगन-जाती' इत्यस्यानुपपत्तेः, गगन-जात्युभयत्वावच्छेदेन' जातिवृत्तित्वाभाववत्समवायवैशिष्टयाभावा भावात : द्वित्वसामानाधिकरण्येन तद्धोधे च 'घटे सत्ता-तद्भिनजाती न स्तः' इत्यस्यापि प्रसङ्गात् । एवं च 'हूद-पर्वतयोर्न 190 Jain Education inta na For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy