SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ इत्याह-तुच्छरूपा निःस्वभावात्मिका, तदा-द्वितीयक्षणे, असत्ता तस्या नाशिता निवृत्तिः, भावाप्तेः- सत्तारूपप्रवेशात, उदिता-प्राक् प्रसञ्जिता ॥ ३५ ॥ ननूक्तम्- 'अभावे विकल्पाभावाद् न प्रसङ्गः' इत्यत्राहभावस्याभवनं यत्तदभावभवनं तु यत्।तत्तथाधर्मके ह्युक्तविकल्पो न विरुध्यते ॥३६॥ भावस्याभवनं यत्- तुच्छरूपं, तत्- तदेव, अभावभवनम् , आर्थप्रत्ययाविशेषात् , 'घटो नास्ति' इत्यतो 'घटाऽस्तित्वाभावबोधवद् घटाभावेऽस्तित्वबोधस्याप्यानुभविकत्वात् , उभयथापि संशयाभावात् , तात्पर्यभेदेनोभयोपपत्तेश्च । यत्तु- 'भूतले घटो नास्तीत्यादौ सप्तम्या निरूपितत्वमर्थः, धातोराधेयत्वम् , तथाच भूतनिरूपितवर्तमानाधेयत्वाश्रयत्वाभा| वस्यैव घटादावन्वयः, तथैव सुप्-तिङोर्वचनैक्यनियमोपपत्तेः । यदि च 'गगनमस्ति' इत्यादौ कालसंबन्ध एवाऽस्थात्वर्थः, तदा सप्तम्यर्थोऽवच्छिन्नत्वमस्त्यर्थेऽन्वेति, 'घटे मेयत्वमस्ति' इत्यादौ तु मेयत्वनिष्ठकालसंबन्धस्यानवच्छिन्नत्वेन बाधात् सप्तम्या वृत्तित्वमात्रमर्थ इति न दोषः, अन्यथा तु 'भवनाद् निर्गते घटे 'भवने घटोऽस्ति' इति, भवनस्थे च घटे 'भवने घटो नास्ति' इति व्यवहारप्रामाण्यापत्तिः, भवनवृत्तिघटस्य, भवनवृत्तिघटाभावस्य च कचित् सत्त्वात् । न च 'जातौ न सत्ता' इत्यत्रान्वयानुपपत्तिः, जातिसमवेतत्त्वस्याप्रसिद्धत्वात् , संबन्धान्तरेण जातिवृत्तित्वस्य च सत्तायां सत्वादिति वाच्यम्; एकार्थसमवायादिभिन्नसंबन्धेन वृत्तित्वे सप्तम्या निरूढलक्षणास्वीकारात्' इति केषाश्चिद् नैयायिकानां मतम् । तदसत्, 'भूतले न Jain Education Intern For Private & Personel Use Only Enaw.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy