________________
शास्त्रवातों समुच्चयः । ॥१२८॥
Jain Education
न, दोषेतरतदुपलम्भ कहेतोरेवाभावात्, आलोक-मनस्कारादेर्भावस्यैवोपलम्भकत्वात् शब्दस्थलेऽपि शशशृङ्गमुख्य विशेष्य के नास्तित्वप्रकार कशाब्दविकल्प एव तत्तदानुपूर्व्याः सामर्थ्य कल्पनात् । न हि 'शशशृङ्गं नास्ति' इत्यत्र 'शशशृङ्गाभावोऽस्ति ' इति कस्यचिद् व्यवहारः, किन्तु 'शशशृङ्गमस्तित्वाभाववत्' इत्येव । न च व्यवहारप्रातिकूल्येन कल्पना युक्तिमतीति ||३३|| एवं समर्थिते स्वमते परः स्वयमेव प्रसङ्गदोषं परिहरन्नाह
'एतेनाहेतुकत्वेऽपि ह्यभूत्वा नाशभावतः । सत्त्वानाशित्वदोषस्य प्रत्याख्यातं प्रसञ्जनम् ॥
,
एतेन नाशस्य विधिव्यवहाराविषयत्वप्रतिपादनेन नाशस्याहेतुकत्वेऽप्यङ्गीक्रियमाणे हि निश्चितम् अभूत्वाप्रथमभवनरूपेणोत्पद्य, नाशभावतः - अनन्तरं भावरूपतया नाशोत्पत्तेः, सच्चानाशित्वदोषस्याङ्कुरादिवत् सवोन्मज्जनरूपस्यानिष्टस्य, प्रसञ्जनम् - आपादनम् प्रत्याख्यातं - निराकृतम् ॥ ३४ ॥
एतद् धर्मकीर्तिनोक्तम्, तच्च सर्वे 'सतोऽसच्चे' इत्यादिनेह दूषितमेव, तथापि 'एतेन' इत्यादि योजयन्नाह - प्रतिक्षिप्तं च यत्सत्त्वानाशित्वागोऽनिवारितम् । तुच्छरूपा तदाऽसत्ता भावाप्तेर्नाशितोदिता ३५
प्रतिक्षिप्तं चैतत् यद्यस्मात् सश्वानाशित्वागः- भावोन्मज्जनापराधः अनिवारितम्, अतस्तदवस्थ एव । कथम् ?
"
1 अत्रैव स्तव कारिका १२ ।
tional
For Private & Personal Use Only
सटीकः । स्तबकः ।
॥ ४ ॥
।। १६८ ।।
www.jainelibrary.org