SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter तात्पर्यात्; अन्यथा विधिव्यवहारविषयत्वे तत्र तुच्छतैव न स्यात् । ननु योग्योपलब्ध्या शशशृङ्गाभावग्रहात् तत्र कालसंवन्धार्थक भवनविधानमविरुद्धम्, प्रतियोगिव्याप्येतरत्ववद् दोषेतरत्वस्यापि योग्यताशरीरे निवेशात्, अन्यथा हदादौ वयादि भ्रामक दोष सखेनानुपलम्भः, तदसखे तु न योग्यता, इति तत्र वह्नयाद्यभावप्रत्यक्षमपि न स्यात् । न च प्रतियोग्यंशे भ्रमजनकदोषतरत्वं निवेशनीयम्, हंदं वह्निभ्रामकदोषकाले वह्निविशिष्टहदत्वाभावप्रत्यक्षापत्तेः ; तत्र तदनुपलम्भविघटकदोषेतरत्व निवेशे च ' अत्र पीतशङ्खो नास्ति' इत्यादाविव तत्र तद्वत्ताभ्रमजनकदोषातिरिक्तस्य प्रतियोगिनि प्रतियोगितावच्छेदकवैशिष्ट्यांशे भ्रमजनकस्य दोषस्य सन्वेऽपि तत्र तदनुपलम्भस्याबाधात् । एतेन "दुष्टोपलम्भसामग्री शशशृङ्गादियोग्यता । न तस्यां नोपलम्भोऽस्ति नास्ति सानुपलम्भने ' ॥ १ ॥" इत्युदयनोक्तमपास्तम् । न च पदवत्याद्यभावात् तादृशशाब्दव्यवहारासङ्गतिरिति वाच्यम्, पदवृत्त्याद्यभावेऽपि दोषविशेषमहिना शब्दादपि तद्बोधसंभवात् वेदान्तवाक्याद् निर्दोषत्वमहिम्ना पदवृत्त्यादिकं विनैव वेदान्तिनो निर्गुणब्रह्मबोधवत् ; तदाह श्रीहर्षः — "अत्यन्तासत्यपि' ह्यर्थे ज्ञानं शब्दः करोति हि । अवाधातु प्रमामत्र स्वतः प्रामाण्यनिथलाम् ॥ १ ॥” इति । न चैवं तदुपलम्भसामग्य्यादिकल्पने गौरवम्, प्रामाणिकत्वात्; अन्यथा प्रातीतिकपदार्थमात्रविलयापत्तेरिति चेत् । १ कुसुमाञ्जली तृतीये स्तबके कारिका ३ । २ 'पि ज्ञानमर्थे श' इति खण्डन० मुद्रितपुस्तके पाठः । ३ खण्डनखण्डखाये प्रथमपरिच्छेदे कारिका ११ | For Private & Personal Use Only av jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy