SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ शास्त्रवातो समुच्चयः ॥१२७॥ Jain Education सस्यैव भेदकत्वात्, अन्यथा नीलपीतादीनामपि भावत्वेन भेदो न स्यादिति । एवं तावदभिहितः परपक्षेऽनिष्टप्रसङ्गः ।। ३१ ।। अथैतेन यदपाकृतं तदुपन्यस्यन्नाह— एतेनैतत्प्रतिक्षिप्तं यदुक्तं न्यायमानिना । 'न तत्र किञ्चिद् भवति न भवत्येव केवलम् ॥३२॥ एतेन - अनन्तरोदितेन प्रसङ्गदोषेण, एतत् प्रतिक्षिप्तं यदुक्तं न्यायमानिना- तर्कावलिप्तेन धर्मकीर्तिना । किं तदुक्तमिति सार्धकारिकाद्वयमाह - न तत्र- वस्तुनि क्षणादूर्ध्वं किञ्चिद् भवति - वस्तुशब्दवाच्यम् । किं तर्हि तत् ? इत्याह- केवलं न भवत्येव - प्राक्क्षणे भवनशीलं तदेव न भवति, अन्यथा तन्नाशायोगादित्यर्थः ॥ ३२ ॥ ननु तद् घटाभवनं यदि घटस्वभावम्, अनीदृशं वा । उभयथापि घटाप्रच्युतिः, घटस्वभावनाशकाले घटस्यापि सच्चात् घटास्वभावेन नाशेन घटस्वरूपाप्रच्युते, इत्यादिदोषोपनिपातः कथं वारणीयः १ इत्यत आह ‘भावे ह्येष विकल्पः स्याद्विधेर्वस्त्वनुरोधतः । न भावो भवतीत्युक्तमभावो भवतीत्यपि ॥ ३३ ॥ भावे हि वस्तुनो भवने, एषः- तत्वाऽन्यत्वयोरनिष्टप्रसङ्गादिरूपः, विकल्पः- स्यात् । कुतः ? इत्याह- विधे:शब्दादिना विधिव्यवहारस्य, वस्त्वनुरोधतः वस्त्वालम्ब्यैव प्रवृत्तेः, अवस्तुनि तदभावात् । ननु यद्येवं कथं तर्हि 'शशविषाणमभावो भवति' इत्यादिर्व्यवहार: १ इत्यत आह- 'अभावो भवति' इत्यप्युक्ते 'भावो न भवति' इत्युक्तम्, तस्य तत्रैव gational For Private & Personal Use Only सटीकः । स्तबकः । ॥ ४ ॥ ॥१२७॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy