SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ उपसंहरबाहतस्मादवश्यमेष्टव्यंतदूर्ध्व तुच्छमेव तत् ।ज्ञेयं सज्ज्ञायते ह्येतदपरेणापि युक्तिमत् ॥३०॥ ___तस्मात्- उक्तयुक्तेः, तर्ध्व- क्षणस्थितिधर्मणः सत्त्वार्ध्वम् , तद्-घटासत्त्वम् , तुच्छमेव- भावविलक्षणमेव, अवश्य मेष्टव्यम्- अङ्गीकर्तव्यम् । हि-निश्चितम्, एतत्- असत्वम् , ज्ञेयं सत्-ज्ञेयस्वभावं सत् , अपरेणापि- अग्रिमज्ञानेनापि, Fol ज्ञायते- परिच्छिद्यते, युक्तिमत्-न्याय्यमेतत् , विषयसत्वे तज्ज्ञानसंभवात् । तत्तुच्छत्वा-तुच्छत्वयोः प्रामाण्या-प्रामाण्ययोरेव प्रयोजकत्वात् , सन्मात्रविषयत्वरूपमामाण्याभावेऽपि भ्रमभिन्नत्वरूपस्य तस्याक्षयत्वाचेति निगर्वः । तदेवमसत्त्वस्योत्पादादि व्यवस्थापितम् ॥ ३०॥ अत्रानिष्टापत्तिपरिजिहीर्षयाहनोत्पत्त्यादेस्तयोरेक्यं तुच्छे-तरविशेषतः । निवृत्तिभेदतश्चैव बुद्धिभेदाच्च भाव्यताम्॥३१॥ नोत्पत्यादेः कारणात् , तयोः- सत्या-ऽसत्त्वयोः, ऐक्यम् । कुतः ? इत्याह- तुच्छे-तरत्वभेदात् ; असत्वं हि । तुच्छस्वभावम् , सत्वं चातुच्छस्वभावमिति । तथा, निवृत्तिभेदतश्चैव- सत्त्वस्य निवृत्तिस्तुच्छा, असत्त्वस्य त्वतुच्छेति ।। तथा, बुद्धिभेदाच- सत्वे 'अस्ति' इत्येव बुद्धिः, असत्त्वे च 'नास्ति' इति, विभाव्यताम्- विमुश्यताम् , विरुद्धधर्माध्या Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy