SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः ॥१२६॥ सटीकः। स्तवकः । ॥४॥ अन्तेऽपि-विभागसन्तत्युत्पत्तावपि, अस्य- घटासत्वस्य, कचिद् दर्शनं न । कुतः ? इत्याह- कपालादिगतेः- कपालादेरेव परिच्छेदात् । कपालायेव घटाभावः स्तात् , इत्यत्राह- न तदेव- कपालायेव, घटाभावः- घटासत्वम् । कुतः ? इत्याह- भावत्वेन प्रतीतितः- सत्वेनानुभवात् । न चासत् सत्त्वेनानुभूयते ॥२८॥ मा भूत कपालादिकमेव घटासत्वम् , तथापि कपालादिदर्शनेन घटासत्त्वमनुमास्यत इत्यत्राहन तद्गतेर्गतिस्तस्य प्रतिबन्धविवेकतः। तस्यैवाभवनत्वे तु भावाविच्छेदतोऽन्वयः॥२९॥ न तद्गतेः- कपालादिदर्शनात् , तस्य- घटासत्त्वस्य, गतिः- ज्ञानम् । कुतः ? इत्याह- प्रतिबन्धविवेकतः- कपालादि-घटाभावयोाप्त्यभावात् । 'तादात्म्य-तदुत्पत्तिभ्यामेव हि व्याप्तिः' इति सुगतसुतस्य संप्रदायः । न च कपाले घटाभावतादात्म्यम् , तदुत्पत्तिा, इति न व्याप्तिरिति निगर्वः । अस्तु तर्हि अनायत्या घटाभावतादात्म्यमेव कपालादौ, अधिकरणानतिरिक्ताभावस्य शशविषाणाप्रख्यत्वात् , एकस्यैवाखण्डतया प्रतीयमानस्य नाशस्य सांकृतिकत्वात् , इति पक्षाङ्गीकारे परस्याह- तस्यैव- कपालादेरेव, अभवनत्वे तु- घटाभवनत्वे तु, तुनाऽभ्युपगमः मुच्यते, भावाविच्छेदतोऽन्योत्पादनस्य नाशाव्यवहारेण कपालरूपघटनाशे घटस्य तादात्म्यसंबन्धस्वीकारे कपालतया घटस्य परिणामेऽपि घट एव कपालीभूत इत्यर्थप्रतीयमानया भावतोऽविच्छित्त्या, अन्वयः सिद्धः । घटासत्त्वस्याखण्डस्य स्वीकारे तु 'शशविषाणम्' इत्यादाविव षष्टयर्थापोलोचनान् स्यादप्यनन्वय इति भावः ।। २९ ।। ॥१२६ ॥ Jain Educationa l For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy