SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः ॥१२६॥ सटीकः। स्तवकः । ॥४॥ अन्तेऽपि-विभागसन्तत्युत्पत्तावपि, अस्य- घटासत्वस्य, कचिद् दर्शनं न । कुतः ? इत्याह- कपालादिगतेः- कपालादेरेव परिच्छेदात् । कपालायेव घटाभावः स्तात् , इत्यत्राह- न तदेव- कपालायेव, घटाभावः- घटासत्वम् । कुतः ? इत्याह- भावत्वेन प्रतीतितः- सत्वेनानुभवात् । न चासत् सत्त्वेनानुभूयते ॥२८॥ मा भूत कपालादिकमेव घटासत्वम् , तथापि कपालादिदर्शनेन घटासत्त्वमनुमास्यत इत्यत्राहन तद्गतेर्गतिस्तस्य प्रतिबन्धविवेकतः। तस्यैवाभवनत्वे तु भावाविच्छेदतोऽन्वयः॥२९॥ न तद्गतेः- कपालादिदर्शनात् , तस्य- घटासत्त्वस्य, गतिः- ज्ञानम् । कुतः ? इत्याह- प्रतिबन्धविवेकतः- कपालादि-घटाभावयोाप्त्यभावात् । 'तादात्म्य-तदुत्पत्तिभ्यामेव हि व्याप्तिः' इति सुगतसुतस्य संप्रदायः । न च कपाले घटाभावतादात्म्यम् , तदुत्पत्तिा, इति न व्याप्तिरिति निगर्वः । अस्तु तर्हि अनायत्या घटाभावतादात्म्यमेव कपालादौ, अधिकरणानतिरिक्ताभावस्य शशविषाणाप्रख्यत्वात् , एकस्यैवाखण्डतया प्रतीयमानस्य नाशस्य सांकृतिकत्वात् , इति पक्षाङ्गीकारे परस्याह- तस्यैव- कपालादेरेव, अभवनत्वे तु- घटाभवनत्वे तु, तुनाऽभ्युपगमः मुच्यते, भावाविच्छेदतोऽन्योत्पादनस्य नाशाव्यवहारेण कपालरूपघटनाशे घटस्य तादात्म्यसंबन्धस्वीकारे कपालतया घटस्य परिणामेऽपि घट एव कपालीभूत इत्यर्थप्रतीयमानया भावतोऽविच्छित्त्या, अन्वयः सिद्धः । घटासत्त्वस्याखण्डस्य स्वीकारे तु 'शशविषाणम्' इत्यादाविव षष्टयर्थापोलोचनान् स्यादप्यनन्वय इति भावः ।। २९ ।। ॥१२६ ॥ Jain Educationa l For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy