SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ स्वभावक्षणतो ह्यूज़ तुच्छता तन्निवृत्तितः। नासावेकक्षणग्राहिज्ञानात्सम्यग्विभाव्यते॥२६॥ स्वभावक्षणतः- स्वसत्ताक्षणात् , ऊर्ध्वम्- असिमक्षणेषु, हि-निश्चितम् , तुच्छता- तदसत्त्वरूपा । कुतः इत्याहतन्नित्तितः- भावनिवृत्यभ्युपगमात् । यत एवम् , अतो नासौ- तुच्छता, एकक्षणग्राहिज्ञानात् सम्यग विभाव्यते- न्यायतो निश्चीयते, तदा तुच्छताया असत्त्वेन तदननुभवादिति भावः ॥ २६ ॥ ततः किम् ? इत्याहतस्यां च नागृहीतायां तत्तथेति विनिश्चयः।न हीन्द्रियमतीतादिग्राहकं सद्भिरिष्यते ॥ तस्यां च द्वितीयादिक्षणास्थितिरूपायां तुच्छतायाम् , अगृहीतायां सत्याम् , तद्-वस्तु, तथा- क्षणस्थितिधर्मकम् , इति न विनिश्चयः, तत्वेन विनिधयस्य द्वितीयादिक्षणास्थितिग्रहसापेक्षत्वात् । न च तद्ग्रहोऽपीन्द्रियेणैव भविष्यति, इत्याहन हीन्द्रियं चक्षुरादि, अतीतादिग्राहकम्- अतीतै ध्यत्परिच्छेदकम् , सद्भिः- पण्डितैः, इष्यते । न च वर्तमानक्षणग्रहे पूर्वाऽपरयोरदर्शनादेवाभावग्रह इति शङ्कनीयम् , दृश्यादर्शनस्यैवाभावग्राहकत्वात् ॥ २७॥ प्रस्तुतोपचयमाहअन्तेऽपि दर्शनं नास्य कपालादिगतेः क्वचित् । न तदेव घटाभावो भावत्वेन प्रतीतितः॥२८॥ Jain Education Intes a For Private & Personel Use Only Jww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy