________________
शास्त्रवार्ता - समुच्चयः ।
।। १२५ ।।
Jain Education
दिस्वभावानामपि भावानां नीलादिविकल्पोत्पादक दर्शन हेतुत्वसंभवाद् निर्धर्मकमेवास्तु स्वलक्षणम् । तथाच, सर्व धर्माभावाद् निरवशेषमित्यर्थः, नञोऽमश्लेषाद् निश्चय:- मितनिश्चयः पुनर्मितग्रहसमारोपाद् नियतवासनाप्रबोधात् इति व्याख्येयम् । वासनाप्रवोधनियमेऽप्यनुभवस्यैव नियामकत्वाद् नायं दोष इति चेत् । तर्ह्यत्यन्तासति विषये कथं वासनास्वीकारः । समनन्तरा-समनन्तर विकल्पविभागार्थं वासनाभेदस्वीकाराद् न दोष इति चेत् । सोऽपि किमर्थम् ? । परम्परया संवादा ऽसंवादनियमार्थमिति चेत् । तर्हि साक्षादेव तदभ्युपगमोऽस्तु किमीदृशकुसृष्ट्या ? इति दिक् ।। २४ ।।
अत्रैवोपचयमाह -
एकत्र निश्चयोऽन्यत्र निरंशानुभवादपि । न तथा पाटवाभावादित्यपूर्वमिदं तमः ॥ २५ ॥
एकत्र सखे, निश्चयः, अनुभवपाटवात्; अन्यत्र च असस्त्रे, निरंशानुभवादपि पाटवाभावात् न तथा-न निश्चयः, इतीदमपूर्व तम:- महत्तममज्ञानम्, निरंशे एकत्र पाटवम्, अन्यत्र न, इति विभागाभावात् । सवनिश्चयजननी शक्तिरेव पाटवम्, असवनिश्चय हेतु शक्त्यभावश्चापाटवम्, न तु तत्र विषयावच्छेदोऽपि निविशते, येन निरंशत्वविरोधः स्यादिति चेत् । न तद्विषयत्वेनैव तच्छक्तिनियमात्; अन्यथा नीलादिस्वभावेऽप्यनाश्वासप्रसङ्गात् । विभागसंतता व सच्वनिश्चयदर्शनेनानुभवे तच्छक्तिकल्पनावश्यकत्वाच्चः अन्यथाऽतिप्रसङ्गात् सर्वानुभवेऽपि मितनिश्चयशक्तिसंभवादिति दिक् ।। २५ ।।
प्रस्तुतमेव समर्थयति
For Private & Personal Use Only
सटीकः । स्तवकः ।
118 11
॥१२५॥
www.jainelibrary.org